Thursday, February 26, 2026

Lesson 1

 

प्रथमः पाठः – कृत्परिचयः

प्रयोजनानि – अस्मिन् पाठे ...

1.    कृत्-संज्ञायाः व्याख्यानं जानीमः।

2.   कृतः केभ्यः विहिताः इति जानीमः।

3.   कृत्प्रत्ययानां भेदान् जानीमः।

4.   कृतामर्थं जानीमः।

5.   अस्मिन् पाठ्यक्रमे कथं विभागः कृतः इत्यपि जानीमः।

6.   कृत्प्रक्रियायाः परिचयमपि प्राप्नुमः।

कृत्संज्ञा – अष्टाध्याय्यां तृतीयाध्याये प्रथमे पादे धातोः इत्यधिकारात् तृतीयाध्यायसमाप्तिं यावत् विहितानां तिङ्भिन्नप्रत्ययानां कृत् इति संज्ञा।[1] अतः सनादीनां कृत् इति संज्ञा न भवति, तेषां तस्मिन्नधिकारे अनन्तर्भावात्।

कृत्प्रत्ययाः केभ्यः विहिताः –

कृत्प्रत्ययाः धातुभ्यः विहिताः। औपदेशिकधातुभ्यः, आतिदेशिकधातुभ्यः अपि कृत्प्रत्ययाः भवन्ति।

कृत्प्रत्ययानां भेदाः – कृत्सु अपि सार्वधातुकाः आर्धधातुकाः इति द्विधा भेदाः दृश्यन्ते। शितः कृतः सार्वधातुकसंज्ञकाः भवन्ति। शिद्भिन्नः कृतः आर्धधातुकसंज्ञकाः भवन्ति। कृत्सु कश्चन अन्तर्भेदः अपि दृश्यते कृत्यः इति।

कृत्प्रत्ययानामर्थाः

सामान्यतया कृत्प्रत्ययाः कर्तरि उक्ताः।[2] कृत्यसंज्ञकाः कृत्प्रत्ययाः सकर्मकेभ्यः कर्मणि भवन्ति, अकर्मकेभ्यः भावे भवन्ति।[3] न केवलमेतेषु अर्थेषु क्वचित् करणादिषु कारकेष्वपि कृत्प्रत्ययाः भवन्ति।[4] एतैः अर्थैः सह भूतादीन् कालानपि बोधयन्ति क्वचित्।[5]

कृतां विधानम् –

1.    सर्वेभ्यः धातुभ्यः विधीयमानाः प्रत्ययाः। यथा – ण्वुल्, तृच्[6]

2.   विशिष्य केभ्यश्चित् धातुभ्यः विधीयमानाः प्रत्ययाः। यथा – ज्ञाधातोः कप्रत्ययः।[7]

3.   उपपदे विद्यमाने विधीयमानाः प्रत्ययाः। यथा – कर्मणि उपपदे धातोः अण्।[8]

4.   तथैव वाक्यगतनियमान् अनुसृत्य विधीयमानाः। यथा – समानकर्तृकयोः पूर्वकाले क्त्वा।[9]

अस्मिन् पाठ्यक्रमे कृतः एवं विभक्ताः –

उपपदविद्यमाने विहितानपि कृत्प्रत्ययान् जानीमः।

कृत्प्रक्रिया – कृत्प्रक्रियायां तिङ्प्रक्रियावत् केचन स्मर्तव्याः अंशाः वर्तन्ते।

    1. प्रत्यये इत्संज्ञा कस्य वर्तते। यथा – णित् कित्।
    2. प्रत्ययस्य का संज्ञा वर्तते। यथा – सार्वधातुकम्, आर्धधातुकम्।
    3. प्रत्ययस्य आदौ कः वर्णः वर्तते। वल्, झल्।
    4. अङ्गस्य अन्ते कः वर्णः, उपधायां कः वर्णः। इगन्तम्, इगुपधः।
    5. कृदन्तस्य प्रातिपदिकसंज्ञा, अतः सुबुत्पत्तिः।
    6. केषाञ्चन कृदन्तानाम् अव्ययम् इति संज्ञा।
    7. धातवः सेटः अथवा अनिटः।
    8. सम्प्रसारणार्हाः धातवः सन्ति न वा। यथा – ग्रह्।

एते अंशाः विचारणीयाः।



[1] कृदतिङ्

[2] कर्तरि कृत्

[3] तयोरेव कृत्यक्तखलर्थाः

[4] करणाधिकरणणयोश्च

[5] निष्ठा

[6] ण्वुल्तृचौ

[7] इगुपधज्ञाप्रीकिरः कः

[8] कर्मण्यण्

[9] समानकर्तृकयोः पूर्वकाले

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...