प्रथमः पाठः – कृत्परिचयः
प्रयोजनानि – अस्मिन् पाठे ...
1. कृत्-संज्ञायाः व्याख्यानं जानीमः।
2. कृतः केभ्यः विहिताः इति जानीमः।
3. कृत्प्रत्ययानां भेदान् जानीमः।
4. कृतामर्थं जानीमः।
5. अस्मिन् पाठ्यक्रमे कथं विभागः कृतः इत्यपि जानीमः।
6. कृत्प्रक्रियायाः परिचयमपि प्राप्नुमः।
कृत्संज्ञा – अष्टाध्याय्यां तृतीयाध्याये प्रथमे पादे धातोः इत्यधिकारात् तृतीयाध्यायसमाप्तिं यावत् विहितानां तिङ्भिन्नप्रत्ययानां कृत् इति संज्ञा।[1] अतः सनादीनां कृत् इति संज्ञा न भवति, तेषां तस्मिन्नधिकारे अनन्तर्भावात्।
कृत्प्रत्ययाः केभ्यः विहिताः –
कृत्प्रत्ययाः धातुभ्यः विहिताः। औपदेशिकधातुभ्यः, आतिदेशिकधातुभ्यः अपि कृत्प्रत्ययाः भवन्ति।
कृत्प्रत्ययानां भेदाः – कृत्सु अपि सार्वधातुकाः आर्धधातुकाः इति द्विधा भेदाः दृश्यन्ते। शितः कृतः सार्वधातुकसंज्ञकाः भवन्ति। शिद्भिन्नः कृतः आर्धधातुकसंज्ञकाः भवन्ति। कृत्सु कश्चन अन्तर्भेदः अपि दृश्यते कृत्यः इति।
कृत्प्रत्ययानामर्थाः –
सामान्यतया कृत्प्रत्ययाः कर्तरि उक्ताः।[2] कृत्यसंज्ञकाः कृत्प्रत्ययाः सकर्मकेभ्यः कर्मणि भवन्ति, अकर्मकेभ्यः भावे भवन्ति।[3] न केवलमेतेषु अर्थेषु क्वचित् करणादिषु कारकेष्वपि कृत्प्रत्ययाः भवन्ति।[4] एतैः अर्थैः सह भूतादीन् कालानपि बोधयन्ति क्वचित्।[5]
कृतां विधानम् –
1. सर्वेभ्यः धातुभ्यः विधीयमानाः प्रत्ययाः। यथा – ण्वुल्, तृच्[6]
2. विशिष्य केभ्यश्चित् धातुभ्यः विधीयमानाः प्रत्ययाः। यथा – ज्ञाधातोः कप्रत्ययः।[7]
3. उपपदे विद्यमाने विधीयमानाः प्रत्ययाः। यथा – कर्मणि उपपदे धातोः अण्।[8]
4. तथैव वाक्यगतनियमान् अनुसृत्य विधीयमानाः। यथा – समानकर्तृकयोः पूर्वकाले क्त्वा।[9]
अस्मिन् पाठ्यक्रमे कृतः एवं विभक्ताः –
उपपदविद्यमाने विहितानपि कृत्प्रत्ययान् जानीमः।
कृत्प्रक्रिया – कृत्प्रक्रियायां तिङ्प्रक्रियावत् केचन स्मर्तव्याः अंशाः वर्तन्ते।
- प्रत्यये इत्संज्ञा कस्य वर्तते। यथा – णित् कित्।
- प्रत्ययस्य का संज्ञा वर्तते। यथा – सार्वधातुकम्, आर्धधातुकम्।
- प्रत्ययस्य आदौ कः वर्णः वर्तते। वल्, झल्।
- अङ्गस्य अन्ते कः वर्णः, उपधायां कः वर्णः। इगन्तम्, इगुपधः।
- कृदन्तस्य प्रातिपदिकसंज्ञा, अतः सुबुत्पत्तिः।
- केषाञ्चन कृदन्तानाम् अव्ययम् इति संज्ञा।
- धातवः सेटः अथवा अनिटः।
- सम्प्रसारणार्हाः धातवः सन्ति न वा। यथा – ग्रह्।
एते अंशाः विचारणीयाः।
No comments:
Post a Comment