Friday, February 27, 2026

Lesson 15(तव्यत्-तव्य)

 

पञ्चदशः पाठः – तव्यत्-तव्ययोः प्रक्रिया

प्रयोजनानि – अस्मिन् पाठे...

1.    अस्मिन् पाठे तव्यत्-तव्ययोः प्रक्रियां पठामः।

2.   अजन्तधातूनां तव्यत्-तव्ययोः प्रक्रियां जानीमः।

3.   हलन्तधातूनां तव्यत्-तव्ययोः प्रक्रियां जानीमः।

तव्यत्, तव्य –

1.    तव्यत्-तव्यौ भावकर्मणोः अर्थयोः भवतः।[1]

2.   सकर्मकेभ्यः कर्मणि, अकर्मकेभ्यः भावे च भवतः।

3.   तव्यत्-प्रत्यये तकारस्य इत्संज्ञा भवति।

4.   तव्यत्-तव्ययोः प्रक्रियां भेदः न वर्तते।

5.   तकारादी प्रत्ययौ। अतः वलादी, झलादी च।।

6.   आर्धधातुकसंज्ञकौ।

7.   वलादेः आर्धधातुकस्य इट्-आगमः भवति।[2]

अजन्ताः धातवः –

आकारान्ताः –

1.    आकारान्तात् परस्य तव्यत्-तव्ययोः इट् आगमः न भवति।[3]

यथा – ज्ञा तव्यत्/तव्य – ज्ञातव्य

दा तव्यत्-तव्य – दातव्य

इकारान्ताः –

1.    श्रिधातोः श्विधातोः परयोः तव्यत्-तव्ययोः इट् आगमः भवति।

2.   अन्येभ्यः इकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[4]

3.   तव्यत्/तव्ययोः आर्धधातुकत्वात् इगन्तस्य गुणः आदेशः भवति।[5]

यथा – श्रि तव्यत्/तव्य – श्रि इ तव्य – श्रे इ तव्य – अयादेशः – श्रयितव्य

श्वि तव्यत्/तव्य – श्वि तव्य – श्वि इ तृ – श्वे इ तव्य – अयादेशः – श्वयितव्य

अन्ये इकारान्ताः – चि तव्यत्/तव्य – चि तव्य – चेतव्य, जि तव्यत्/तव्य – जि तव्य – जेतव्य

ईकारान्ताः –

1.    डीङ्-धातोः शीङ्-धातोः च परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   अन्येभ्यः ईकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[6]

3.   ईकारस्य गुणः भवति तव्यत्/तव्ययोः।[7]

यथा – शी तव्यत्/तव्य – शी तव्य – शी इ तव्य – शे इ तव्य – शयितव्य

डी तव्यत्/तव्य – डी तव्य – डी इ तव्य – डे इ तव्य – डयितव्य

अन्ये ईकारान्ताः – नी तव्यत्/तव्य – नी तव्य – नेतव्य, क्री तव्यत्/तव्य – क्री तव्य – क्रेतव्य

उकारान्ताः –

1.    यु, रु, नु, स्नु, क्षु, क्ष्णु एतेभ्यः धातुभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   अन्येभ्यः उकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[8]

3.   उकारस्य तव्यत्/तव्ययोः गुणः भवति।[9]

यथा – यु तव्यत्/तव्य – यु तव्य – यु इ तव्य – यो इ तव्य – यवितव्य

नु तव्यत्/तव्य – नु तव्य – नु इ तव्य – नो इ तव्य – नवितव्य

अन्ये उकारान्ताः – श्रु तव्यत्/तव्य – श्रु तव्य – श्रोतव्य

ऊकारान्ताः –

1.    प्रायः ऊकारान्तेभ्यः धातुभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   ऊकारस्य तव्यत्/तव्योः गुणः भवति।[10]

यथा – भू तव्यत्/तव्य – भू तव्य – भू इ तव्य – भो इ तव्य – भवितव्य

पू तव्यत्/तव्य – पू तव्य – पू इ तव्य – पो इ तव्य – पवितव्य

विशेषः – ब्रूधातोः तव्यत्/तव्ययोः वच्-आदेशः।[11]

ब्रू तव्यत्/तव्य – ब्रू तव्य – वच् तव्य – चकारस्य ककारादेशः – वक्तव्य

ऋकारान्ताः –

1.    प्रायः ऋकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[12]

2.   ऋकारस्य गुणः भवति।[13]

यथा – कृ तव्यत्/तव्य – कृ तव्य – कर्तव्य

हृ तव्यत्/तव्य – हृ तव्य – हर्तव्य

ॠकारान्ताः –

1.    ॠकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   ॠकारस्य गुणः भवति।[14]

3.   तस्य इट्-आगमस्य विकल्पेन दीर्घः आदेशः भवति।[15]

यथा – तॄ तव्यत्/तव्य – तॄ तव्य – तॄ इ तव्य – तर् इ तव्य – तर् इ तव्य/तर् ई तव्य – तरितव्य/तरीतव्य

हलन्ताः धातवः

ककारान्ताः

1.    शक्-धातोः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[16]

2.   अन्येभ्यः ककारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[17]

यथा – शक् तव्यत्/तव्य – शक् तव्य – शक्तव्य

अन्ये ककारान्ताः – चक् तव्यत्/तव्य – चक् तव्य – चक् इ तव्य – चकितव्य

चकारान्ताः –

1.    पच्, वच्, रिच्, विच्, सिच्, मुच् इति एतेभ्यः धातुभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।

2.   अन्येभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[18]

4.   चकारस्य ककारादेशः।[19]

यथा – पच् तव्यत्/तव्य – पच् तव्य – पक्तव्य

मुच् तव्यत्/तव्य – मुच् तव्य – मोच् तव्य – मोक्तव्य

अन्ये चकारान्ताः – अर्च् तव्यत्/तव्य – अर्च् तव्य – अर्च् इ तव्य – अर्चितव्य

छकारान्ताः –

1.    प्रच्छ् धातोः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।

2.   अन्येभ्यः छकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[20]

4.   प्रच्छ्-धातोः च्छकारस्य षकारादेशः भवति झलि।[21]

यथा – प्रच्छ् तव्यत्/तव्य – प्रच्छ् तव्य – षकारादेशः – प्रष् तव्य – ष्टुत्वम् – प्रष्टव्य

अन्ये छकारान्ताः – म्लेच्छ् तव्यत्/तव्य – म्लेच्छ् तव्य – म्लेच्छ् इ तव्य – म्लेच्छितव्य

 

 



[1] तव्यत्तव्यानीयःरः

[2] आर्धधातुकस्य इड्वलादेः

[3] एकाच उपदेशेऽनुदात्तात्

[4] एकाच उपदेशेऽनुदात्तात्

[5] सार्वधातुकार्धधातुकयोः

[6] एकाच उपदेशेऽनुदात्तात्

[7] सार्वधातुकार्धधातुकयोः

[8] एकाच उपदेशेऽनुदात्तात्

[9] सार्वधातुकार्धधातुकयोः

[10] सार्वधातुकार्धधातुकयोः

[11] ब्रुवो वचिः

[12] एकाच उपदेशेऽनुदात्तात्

[13] सार्वधातुकार्धधातुकयोः

[14] सार्वधातुकार्धधातुकयोः

[15] तो वा

[16] एकाच उपदेशेऽनुदात्तात्

[17] पुगन्तलघूपधस्य च

[18] पुगन्तलघूपधस्य च

[19] चोः कुः

[20] पुगन्तलघूपधस्य च

[21] व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शां षः

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...