Friday, February 27, 2026

Lesson 16 (अनीयर्)

 

षोडशः पाठः – अनीयर्-प्रत्ययः

प्रयोजनानि –

1.    अनीयर्-प्रत्ययस्य विधानं जानीमः

2.   अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः।

3.   हलन्तधातूनाम् अनीयर्-प्रक्रियां पठामः।

अनीयर्-प्रत्ययः

1.    अनीयर्-प्रत्ययः सकर्मकेभ्यः कर्मणि भवति।

2.   अकर्मकेभ्यः भावे भवति।

3.   रेफस्य इत्संज्ञा भवति। अनीय इति अवशिष्टः।

4.   अस्य प्रत्ययस्य कृत्य इत्यपि संज्ञा भवति।

5.   अस्य आर्धधातुकमिति संज्ञा वर्तते।

आकारान्तः –

1.    आकारान्तेभ्यः अनीयरि सन्धिः भवति।

दा अनीयर् – दा अनीय – दानीय।

पा अनीयर् – पा अनीय – पानीय।

इकारान्ताः –

1.    इकारस्य ईकारस्य अनीयर्-प्रत्यये परे गुणः भवति।

चि अनीयर् – चि अनीय – चे अनीय – चय् अनीय – चयनीय।

नी अनीयर् – नी अनीय – ने अनीय – नय् अनीय – नयनीय।

उकारान्ताः –

1.    उकारस्य ऊकारस्य च अनीयर्-प्रत्यये परे गुणः भवति।

स्तु अनीयर् – स्तु अनीय – स्तो अनीय – स्तव् अनीय – स्तवनीय।

भू अनीयर् – भू अनीय – भो अनीय – भव् अनीय – भवनीय।

ऋकारान्ताः –

1.    ऋकारस्य ॠकारस्य च अनीयर्-प्रत्यये परे गुणः आदेशः भवति।

कृ अनीयर् – कृ अनीय – कर् अनीय – करणीय।

तॄ अनीयर् – तॄ अनीय – तर अनीय – तरणीय।

अदुपधधातवः – प्रकृतिप्रत्यययोः संयोजनमेव।

पठ् अनीयर् – पठ् अनीय – पठनीय।

पच् अनीयर् – पच् अनीय – पचनीय।

वच् अनीयर् – वच् अनीय – वचनीय।

इदुपधधातवः

1.    उपधायाः ह्रस्वस्य इकारस्य गुणः भवति।

भिद् अनीयर् – भिद् अनीय – भेद् अनीय – भेदनीय।

मिल् अनीयर् – मिल् अनीय – मेल् अनीय – मेलनीय।

लिख् अनीयर् – लिख् अनीय – लेख् अनीय – लोखनीय।

उदुपधधातवः –

1.    उपधायाः ह्रस्वस्य उकारस्य गुणः भवति।

मुच् अनीयर् – मुच् अनीय – मोच् अनीय – मोचनीय।

बुध् अनीयर् – बुध् अनीय – बोध् अनीय – बोधनीय।

ऋदुपधातवः

1.    उपधायाः ह्रस्वस्य ऋकारस्य गुणः भवति।

वृध् अनीयर् – वृध् अनीय – वर्ध् अनीय – वर्धनीय।

वृत् अनीयर् – वृत् अनीय – वर्त् अनीय – वर्तनीय।

2.   मृज् अनीयर्, अत्र वृद्धिः भवति।

मृज् अनीयर् – मृज् अनीय – मार्ज् अनीय – मार्जनीय।

 

 

Lesson 15(तव्यत्-तव्य)

 

पञ्चदशः पाठः – तव्यत्-तव्ययोः प्रक्रिया

प्रयोजनानि – अस्मिन् पाठे...

1.    अस्मिन् पाठे तव्यत्-तव्ययोः प्रक्रियां पठामः।

2.   अजन्तधातूनां तव्यत्-तव्ययोः प्रक्रियां जानीमः।

3.   हलन्तधातूनां तव्यत्-तव्ययोः प्रक्रियां जानीमः।

तव्यत्, तव्य –

1.    तव्यत्-तव्यौ भावकर्मणोः अर्थयोः भवतः।[1]

2.   सकर्मकेभ्यः कर्मणि, अकर्मकेभ्यः भावे च भवतः।

3.   तव्यत्-प्रत्यये तकारस्य इत्संज्ञा भवति।

4.   तव्यत्-तव्ययोः प्रक्रियां भेदः न वर्तते।

5.   तकारादी प्रत्ययौ। अतः वलादी, झलादी च।।

6.   आर्धधातुकसंज्ञकौ।

7.   वलादेः आर्धधातुकस्य इट्-आगमः भवति।[2]

अजन्ताः धातवः –

आकारान्ताः –

1.    आकारान्तात् परस्य तव्यत्-तव्ययोः इट् आगमः न भवति।[3]

यथा – ज्ञा तव्यत्/तव्य – ज्ञातव्य

दा तव्यत्-तव्य – दातव्य

इकारान्ताः –

1.    श्रिधातोः श्विधातोः परयोः तव्यत्-तव्ययोः इट् आगमः भवति।

2.   अन्येभ्यः इकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[4]

3.   तव्यत्/तव्ययोः आर्धधातुकत्वात् इगन्तस्य गुणः आदेशः भवति।[5]

यथा – श्रि तव्यत्/तव्य – श्रि इ तव्य – श्रे इ तव्य – अयादेशः – श्रयितव्य

श्वि तव्यत्/तव्य – श्वि तव्य – श्वि इ तृ – श्वे इ तव्य – अयादेशः – श्वयितव्य

अन्ये इकारान्ताः – चि तव्यत्/तव्य – चि तव्य – चेतव्य, जि तव्यत्/तव्य – जि तव्य – जेतव्य

ईकारान्ताः –

1.    डीङ्-धातोः शीङ्-धातोः च परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   अन्येभ्यः ईकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[6]

3.   ईकारस्य गुणः भवति तव्यत्/तव्ययोः।[7]

यथा – शी तव्यत्/तव्य – शी तव्य – शी इ तव्य – शे इ तव्य – शयितव्य

डी तव्यत्/तव्य – डी तव्य – डी इ तव्य – डे इ तव्य – डयितव्य

अन्ये ईकारान्ताः – नी तव्यत्/तव्य – नी तव्य – नेतव्य, क्री तव्यत्/तव्य – क्री तव्य – क्रेतव्य

उकारान्ताः –

1.    यु, रु, नु, स्नु, क्षु, क्ष्णु एतेभ्यः धातुभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   अन्येभ्यः उकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[8]

3.   उकारस्य तव्यत्/तव्ययोः गुणः भवति।[9]

यथा – यु तव्यत्/तव्य – यु तव्य – यु इ तव्य – यो इ तव्य – यवितव्य

नु तव्यत्/तव्य – नु तव्य – नु इ तव्य – नो इ तव्य – नवितव्य

अन्ये उकारान्ताः – श्रु तव्यत्/तव्य – श्रु तव्य – श्रोतव्य

ऊकारान्ताः –

1.    प्रायः ऊकारान्तेभ्यः धातुभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   ऊकारस्य तव्यत्/तव्योः गुणः भवति।[10]

यथा – भू तव्यत्/तव्य – भू तव्य – भू इ तव्य – भो इ तव्य – भवितव्य

पू तव्यत्/तव्य – पू तव्य – पू इ तव्य – पो इ तव्य – पवितव्य

विशेषः – ब्रूधातोः तव्यत्/तव्ययोः वच्-आदेशः।[11]

ब्रू तव्यत्/तव्य – ब्रू तव्य – वच् तव्य – चकारस्य ककारादेशः – वक्तव्य

ऋकारान्ताः –

1.    प्रायः ऋकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[12]

2.   ऋकारस्य गुणः भवति।[13]

यथा – कृ तव्यत्/तव्य – कृ तव्य – कर्तव्य

हृ तव्यत्/तव्य – हृ तव्य – हर्तव्य

ॠकारान्ताः –

1.    ॠकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

2.   ॠकारस्य गुणः भवति।[14]

3.   तस्य इट्-आगमस्य विकल्पेन दीर्घः आदेशः भवति।[15]

यथा – तॄ तव्यत्/तव्य – तॄ तव्य – तॄ इ तव्य – तर् इ तव्य – तर् इ तव्य/तर् ई तव्य – तरितव्य/तरीतव्य

हलन्ताः धातवः

ककारान्ताः

1.    शक्-धातोः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।[16]

2.   अन्येभ्यः ककारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[17]

यथा – शक् तव्यत्/तव्य – शक् तव्य – शक्तव्य

अन्ये ककारान्ताः – चक् तव्यत्/तव्य – चक् तव्य – चक् इ तव्य – चकितव्य

चकारान्ताः –

1.    पच्, वच्, रिच्, विच्, सिच्, मुच् इति एतेभ्यः धातुभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।

2.   अन्येभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[18]

4.   चकारस्य ककारादेशः।[19]

यथा – पच् तव्यत्/तव्य – पच् तव्य – पक्तव्य

मुच् तव्यत्/तव्य – मुच् तव्य – मोच् तव्य – मोक्तव्य

अन्ये चकारान्ताः – अर्च् तव्यत्/तव्य – अर्च् तव्य – अर्च् इ तव्य – अर्चितव्य

छकारान्ताः –

1.    प्रच्छ् धातोः परयोः तव्यत्-तव्ययोः इट्-आगमः न भवति।

2.   अन्येभ्यः छकारान्तेभ्यः परयोः तव्यत्-तव्ययोः इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[20]

4.   प्रच्छ्-धातोः च्छकारस्य षकारादेशः भवति झलि।[21]

यथा – प्रच्छ् तव्यत्/तव्य – प्रच्छ् तव्य – षकारादेशः – प्रष् तव्य – ष्टुत्वम् – प्रष्टव्य

अन्ये छकारान्ताः – म्लेच्छ् तव्यत्/तव्य – म्लेच्छ् तव्य – म्लेच्छ् इ तव्य – म्लेच्छितव्य

 

 



[1] तव्यत्तव्यानीयःरः

[2] आर्धधातुकस्य इड्वलादेः

[3] एकाच उपदेशेऽनुदात्तात्

[4] एकाच उपदेशेऽनुदात्तात्

[5] सार्वधातुकार्धधातुकयोः

[6] एकाच उपदेशेऽनुदात्तात्

[7] सार्वधातुकार्धधातुकयोः

[8] एकाच उपदेशेऽनुदात्तात्

[9] सार्वधातुकार्धधातुकयोः

[10] सार्वधातुकार्धधातुकयोः

[11] ब्रुवो वचिः

[12] एकाच उपदेशेऽनुदात्तात्

[13] सार्वधातुकार्धधातुकयोः

[14] सार्वधातुकार्धधातुकयोः

[15] तो वा

[16] एकाच उपदेशेऽनुदात्तात्

[17] पुगन्तलघूपधस्य च

[18] पुगन्तलघूपधस्य च

[19] चोः कुः

[20] पुगन्तलघूपधस्य च

[21] व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शां षः

Lesson 14 (क्त)

 

चतुर्दशः पाठः – हलन्तधातूनां क्तप्रक्रिया(2)

प्रयोजनानि –

1.    तवर्गान्ताः

2.   पवर्गान्ताः

3.   शषसान्ताः

तवर्गान्ताः –

तकारान्ताः – तकारान्तेषु ईदितः उदितः आदितः ये सन्ति तेभ्यः परस्य निष्ठाप्रत्ययस्य इट् न भवति।

1.    ईदितः – कृती, चिती, चृती, नृती, यती

2.   उदित् – वृतु

3.   आदित् – श्विता।

कृत् क्त – कृत् त – कृत्त।

थकारान्ताः – थकारान्तेषु ग्रन्थ्, श्रन्थ्, मन्थ्, कुन्थ् एतेषाम् उपधायाः नकारस्य लोपः भवति किति।[1]

ग्रन्थ् क्त – ग्रन्थ् त – ग्रन्थ् इ त – नलोपः – ग्रथ् इ त – ग्रथित।

दकारान्ताः

1.    अद्, पद्, शद्, षद्, हद्, खिद्, छिद्, भिद्, विद्, स्विद्, क्षुद्, तुद्, नुद्, स्कन्द् एते धातवः अनिटः।

2.   दकारात् परस्य निष्ठातकरास्य नकारादेशः, पूर्वस्य दकारस्यापि नकारः भवति।[2]

पद् क्त – पद् त – पन् न – पन्न।

एवं शद् हद्, खिद्, छिद्, स्विद्, क्षुद्, तुद् इत्येषां रूपाणि भवन्ति।

भिद् -धातुः – भिद्-धातोः क्तप्रत्ययो शकलार्थे भित्त इति भवति, अन्यत्र भिन्न इति।[3]

अद्-धातुः –

1.    अद्-धातोः तकारादौ किति जग्ध्-आदेशः भवति।[4]

2.   धकारात् परस्य निष्ठातकारस्य धकारादेशः।[5]

3.   हलः परस्य झरः लोपः भवति सवर्णे झरि।[6] धकारस्य लोपः।

4.   अद्-धातोः क्तप्रत्यये अन्न इत्यपि रूपम्।[7]

अद् क्त – अद् त – जग्ध् त – जग्ध् ध – जग्ध। अन्न।

विद् – तुदादिः, रुधादिः, दिवादिः च अनिट्। अदादिः सेट्।

1.    रुधादिगणधातोः विकल्पेन निष्ठातकारस्य नकारादेशः[8]विन्न, वित्त।

2.   दिवादेः विन्न इति भवति।

3.   तुदादेः भोगार्थे प्रत्यये च वित्त इति भवति, अन्यत्र विन्न इति।[9]

4.   अदादिगणः धातुः सेट् अतः विदित इति भवति।

नुद् – नुद्-धातोः परस्य निष्ठातकारस्य विकल्पेन नकारादेशः।[10] नुत्त, नुन्न।

स्कन्द् –

1.    अस्य धातोः उपधायाः नकारस्य लोपः भवति किति।[11]

2.   दकारात् परस्य निष्ठातकरास्य नकारादेशः, पूर्वस्य दकारस्यापि नकारः भवति।[12]

स्कन्द् क्त – स्कन्द् त – स्कद् त – स्कन् न – स्कन्न।

धकारान्ताः – व्यध्, सिध्, क्रुध्, क्षुध्, बुध्, युध्, रुध्, शुध्, राध्, साध्, बन्ध् एते धातवः सामान्यतया अनिटः। परन्तु क्षुध्-धातोः परस् निष्ठाप्रत्ययस्य इट्-आगमः भवति।[13]

1.    झषः परस्य तस्य थस्य च धकारादेशः भवति।[14]

2.   झलां जशः भवन्ति झशि परे[15] इति धकारस्य दकारादेशः भवति तकारे परे।

सिध् क्त – सिध् त – सिध् ध – सिद् ध – सिद्ध।

एवं क्रुध्, बुध्, युध्, रुध्, शुध्, साध् धातूनां रूपाणि भवन्ति।

व्यध् – व्यध्-धातोः सम्प्रसारणं भवति किति परे।[16] सम्प्रसारणे पूर्वरूपैकादेशः।[17]

व्यध् क्त – व्यध् त – वि अ ध् त – विध् त – विध् ध – विद्ध।

बन्ध् – बन्ध्-धातोः उपधायाः नकारस्य लोपः भवति किति।[18]

बन्ध् क्त – बन्ध् त – बध् त – बध् ध – बद् ध – बद्ध।

नकारान्ताः – मन्, हन् इति अनिटौ स्तः। जनी इति ईदित् अतः निष्ठायाः इट्-आगमः न भवति।[19]

1.    किति अनुनासिकस्य लोपः भवति।[20]

हन् क्त – हन् त – ह त – हत।

जन् – जन्-धातोः नकारस्य आकारादेशः भवति झलादौ किति।[21]

जन् क्त – जन् त – जा त – जात।

पकारान्ताः – तप्, वप्, शप्, स्वप्, क्षिप्, तिप्, लिप्, छुप्, लुप्, तृप्, दृप्, सृप्, आप् एते अनिटः।

तप् क्त - तप् त – तप्त।

एवं शप्, क्षिप्, तिप्, लिप्, छुप्, लुप्, तृप्, दृप्, सृप्, आप् एतेषां धातूनां रूपाणि भवन्ति।

वप् – वप्-धातोः किति सम्प्रसारणं भवति।[22] सम्प्रसारणात् पररूपैकादेशः।

वप् क्त – वप् त – उ अ प् त – उप् त – उप्त।

स्वप् – स्वप्-धातोः किति सम्प्रसारणं भवति।[23] सम्प्रसारणात् पररूपैकादेशः भवति।

स्वप् क्त – स्वप् त – सु अ प् त – सुप् त – सुप्त।

भकारान्ताः – यभ्, रभ्, लभ् इति एते अनिटः।

1.    झषः परस्य तकारस्य धकारादेशः भवति।[24]

2.   झशि परे झलः जश् आदेशः भवति।[25]

लभ् क्त – लभ् त – लभ् ध – लब् ध – लब्ध।

एवं यभ्, रभ् अनयोः प्रक्रियापि ज्ञेया।

मकारान्ताः – गम्, नम्, यम्, रम् एते अनिटः सन्ति।

1.    अनुनासिकस्य लोपः भवति किति।[26]

गम् क्त – गम् त – ग त – गत।

अन्ये ये उदितः ऊदितः सन्ति तेभ्यः परस्य निष्ठाप्रत्ययस्य इट् न भवतीति पूर्वमधीतम्। तत्र

1.    अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घः भवति किति।[27]

2.   मकारस्य अनुस्वारः आदेशः भवति झलि।[28]

3.   अनुस्वारस्य परसवर्णादेशः भवति।[29]

शम् क्त – शम् त – शाम् त – शां त – शान्त।

श्रमु क्त – श्रम् त – श्राम् त – श्रां त – श्रान्त।

शकारान्ताः – दिश्, रिश्, लिश्, विश्, रुश्, क्रुश्, दृश्, मृश्, स्पृश्, दंश् एते अनिटः धातवः।

1.    अत्र शकारस्य षकारादेशः भवति झलि।[30]

2.   षकारात् परस्य तकारस्य ष्टुत्वम्।

दिश् क्त – दिश् त – दिष् त – दिष् ट – दिष्ट।

दंश्धातुं विहाय अन्येषां प्रक्रियापि तथैव भवति।

दंश् – दंश्-धातोः उपधायाः लोपः भवति किति।[31]

दंश् क्त – दंश् त – दश् त – दष् त – दष् ट – दष्ट।

षकारान्ताः – त्विष्, द्विष्, पिष्, विष्, शिष्, श्लिष्, तुष्, दुष्, पुष्, शुष्, कृष् एते अनिटः।

अत्र क्तवतु तकारस्य ष्टुत्वं भवति।

त्विष् क्त – त्विष् त – त्विष् ट – त्विष्ट।

अन्येषां प्रक्रियापि इत्थं ज्ञेया।

सकारान्ताः – वस्, घस् एतौ अनिटौ स्तः।

घस् क्त – घस् त – घस्त।

वस् –

1.    वस्-धातोः परस्य निष्ठाप्रत्ययस्य इट्-आगमः भवति।[32]

2.   वस्-धातोः सम्प्रसारणं भवति।[33]

3.   वस्-धातोः सकारस्य षत्वं भवति।[34]

वस् क्त – वस् त – वस् इ त – उ अ स् इत – उस् इत – उष् इत – उषित।

 



[1] अनिदितां हल उपधायाः क्ङिति

[2] रदाभ्यां निष्टातो नः पूर्वस्य दः

[3] भित्तं शकलम्

[4] अदो जग्धिर्ल्यप् ति किति

[5] झषस्तथोर्दोऽधः

[6] झरो झरि सवर्णे

[7] अदोऽनन्ने इति सूत्रे अन्न इति निर्देशात्

[8] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[9] वित्तो भोगप्रत्ययोः

[10] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[11] अनिदितां हल उपधायाः क्ङिति

[12] रदाभ्यां निष्टातो नः पूर्वस्य दः

[13] वसतिक्षुधोरिट्

[14] झषस्तथोर्दोऽधः

[15] झलां जश् झशि

[16] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[17] सम्प्रसारणाच्च

[18] अनिदितां हल उपधायाः क्ङिति

[19] श्वीदितो निष्ठायाम्

[20] अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

[21] जनसनखनां सञ्झलोः

[22] वचिस्वपियजादीनां किति

[23] वचिस्वपियजादीनां किति

[24] झषस्तथोर्धोऽधः

[25] झलां जश् झशि

[26] अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

[27] अनुनासिकस्य क्विझलोः क्ङिति

[28] नश्चापदान्तस्य झलि

[29] अनुस्वारस्य ययि परसवर्णः

[30] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[31] अनिदितां हल उपधायाः क्ङिति

[32] वसतिक्षुधोरिट्

[33] वचिस्वपियजादीनां किति

[34] शासिवसिघसीनां च

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...