द्वितीयः पाठः – ण्वुल्प्रत्ययः
प्रयोजनानि – अस्मिन् पाठे ...
1.अस्मिन् पाठे ण्वुलप्रत्ययस्य प्रक्रियां पठामः।
2. अजन्तधातूनां ण्वुलि प्रक्रियां जानीमः।
3. हलन्तधातूनां ण्वुलि प्रक्रियां जानीमः।
4. केषाञ्चन धातूनां ण्वुलि प्रक्रियायां वैशिष्ट्यं जानीमः।
5. णिजन्तधातूनां ण्वुलि प्रक्रियां जानीमः।
ण्वुल्-प्रत्ययः –
1. कर्तरि अर्थे धातोः ण्वुल्-प्रत्ययः भवति।[1]
2. ण्वुल्-प्रत्यये णकारस्य इत्संज्ञा भवति।[2]
3. लकारस्य इत्संज्ञा भवति।[3]
4. वु-स्थाने अक-आदेशः भवति।[4]
5. अस्य आर्धधातुकमिति संज्ञा वर्तते।[5]
6. कृदन्तस्य प्रातिपदिकसंज्ञा भवति।[6]
अजन्तधातूनां ण्वुलि प्रक्रिया
आकारान्ताः धातवः –
1. आकारान्तधातूनां णिति युक्-आगमः भवति।[7]
2. ककारस्य इत्संज्ञा, उकारस्य च इत्संज्ञा य् इति अवशिष्टः।
यथा – दा ण्वुल् – दा वु – दा अक – दा य् अक – दायक – दायकः।
पा ण्वुल् – पा वु – पा अक – पा य् अक – पायक – पायकः।
इकारान्ताः धातवः -
1. इकारस्य वृद्धिः आदेशः भवति णिति परे।[8]
2. ऐस्थाने आय्-आदेशः भवति।[9]
यथा – नी ण्वुल् – नी वु – नी अक – नै अक – नाय् अक – नायकः।
चि ण्वुल् – चि वु – चि अक – चै अक – चाय् अक – चायकः।
उकारान्ताः धातवः –
1. उकारान्तधातूनां णिति वृद्धिः(औ) भवति।[10]
2. औस्थाने आव् आदेशः भवति।[11]
यथा – भू ण्वुल् – भू वु – भू अक – भौ अक – भाव् अक – भावकः।
यु ण्वुल् – यु वु – यु अक – यौ अक – याव् अक – यावकः।
ऋकारान्ताः धातवः –
1. ऋकारस्य णिति वृद्धिः(आ) भवति।[12]
2. ॠकारस्य णिति वृद्धिः भवति।[13]
यथा – कृ ण्वुल् – कृ वु – कृ अक – कार् अक – कारकः।
तॄ ण्वुल् – तॄ वु – तॄ अक – तार् अक – तारकः।
हलन्तधातूनां प्रक्रिया –
अदुपधधातवः –
1. अदुपधधातूनां उपधायाः णिति वृद्धिः भवति।[14]
यथा – पठ् ण्वुल् – पठ् वु – पठ् अक – पाठ् अक – पाठकः।
पच् ण्वुल् – पच् वु – पच् अक – पाच् अक – पाचकः।
इदुपधधातवः –
1. आर्धधातुके परे उपधायाः इकारस्य गुणः(ए) भवति।[15]
यथा – भिद् ण्वुल् – भिद् वु – भिद् अक – भेद् अक – भेदकः।
लिप् ण्वुल् – लिप् वु – लिप् अक – लेप् अक – लेपकः।
उदुपधधातवः –
1. आर्धधातुके परे उपधायाः उकारस्य गुणः(ओ) भवति।[16]
यथा – बुध् ण्वुल् – बुध् वु – बुध् अक – बोध् अक – बोधकः।
पुष् ण्वुल् – पुष् वु – पुष् अक – पोष् अक – पोषकः।
ऋदुपधधातवः –
1. उपधायाः ऋकारस्य गुणः(अ) भवति।[17]
यथा – कृष् ण्वुल् – कृष् वु – कृष् अक – कर्ष् अक – कर्षकः।
वृत् ण्वुल् – वृत् वु – वुत् अक – वर्त् अक – वर्तकः।
केषाञ्चन धातूनां प्रक्रियायां वैशिष्ट्यम्
अस्-धातुः –
1. अस्-धातोः आर्धधातुके परे भू-आदेशः भवति।[18]
2. भू-इत्यस्य ऊकारस्य वृद्धिः आदेशः भवति।[19]
अस् ण्वुल् – भू अक – भौ अक – भावकः।
जन्-धातुः
1. जन्-धातोः णिति कृति वृद्धिः न भवति।[20]
2. उपधायाः अकारस्य वृद्धिः प्राप्ता।[21]
जन् ण्वुल् – जन् वु – जन् अक – जनकः।
हन्-धातुः –
1. हन्-धातोः हकारस्य कुत्वं भवति णिति।[22]
2. हन्-धातोः नकारस्य तकारादेशः भवति चिण्भिन्ने णल्भिन्ने णिति परे।[23]
यथा – हन् ण्वुल् – घन् अक – घत् अक – वृद्धिः – घातक – घातकः।
णिजन्तात् ण्वुलि प्रक्रिया –
1. णिजन्तात् ण्वुल्-प्रत्यये णिचः लोपः भवति।[24]
यथा – चुर् णिच् – चुर् इ – चोर इ – चोरि ण्वुल् – चोरि अक – णेः लोपः – चोर् अक – चोरक – चोरकः।
पठ् णिच् – पठ् इ – पाठ् इ – पाठि ण्वुल् – पाठि अक – णेः लोपः – पाठ् अक – पाठक – पाठकः।
[1] ण्वुल्तृचौ
[2] चुटू
[3] हलन्त्यम्
[4] युवोरनाकौ
[5] आर्धधातुकं शेषः
[6] कृत्तद्धितसमासाश्च
[7] आतो युक्
चिण्कृतोः
[8] अचो ञ्णिति
[9] एचोऽयवायावः
[10] अचो ञ्णिति
[11] एचोऽयवायावः
[12] अचो ञ्णिति
[13] अचो ञ्णिति
[14] अत उपधायाः
[15] पुगन्तलघूपधस्य च
[16] पुगन्तलघूपधस्य च
[17] पुगन्तलघूपधस्य च
[18] अस्तेर्भूः
[19] अचो ञ्णिति
[20] जनिवध्योश्च
[21] अत उपधायाः
[22] हो
हन्तेर्ञ्णिन्नेषु
[23] हनस्तोऽचिण्णलोः
[24] णेरनिटि
No comments:
Post a Comment