Friday, February 27, 2026

Lesson 14 (क्त)

 

चतुर्दशः पाठः – हलन्तधातूनां क्तप्रक्रिया(2)

प्रयोजनानि –

1.    तवर्गान्ताः

2.   पवर्गान्ताः

3.   शषसान्ताः

तवर्गान्ताः –

तकारान्ताः – तकारान्तेषु ईदितः उदितः आदितः ये सन्ति तेभ्यः परस्य निष्ठाप्रत्ययस्य इट् न भवति।

1.    ईदितः – कृती, चिती, चृती, नृती, यती

2.   उदित् – वृतु

3.   आदित् – श्विता।

कृत् क्त – कृत् त – कृत्त।

थकारान्ताः – थकारान्तेषु ग्रन्थ्, श्रन्थ्, मन्थ्, कुन्थ् एतेषाम् उपधायाः नकारस्य लोपः भवति किति।[1]

ग्रन्थ् क्त – ग्रन्थ् त – ग्रन्थ् इ त – नलोपः – ग्रथ् इ त – ग्रथित।

दकारान्ताः

1.    अद्, पद्, शद्, षद्, हद्, खिद्, छिद्, भिद्, विद्, स्विद्, क्षुद्, तुद्, नुद्, स्कन्द् एते धातवः अनिटः।

2.   दकारात् परस्य निष्ठातकरास्य नकारादेशः, पूर्वस्य दकारस्यापि नकारः भवति।[2]

पद् क्त – पद् त – पन् न – पन्न।

एवं शद् हद्, खिद्, छिद्, स्विद्, क्षुद्, तुद् इत्येषां रूपाणि भवन्ति।

भिद् -धातुः – भिद्-धातोः क्तप्रत्ययो शकलार्थे भित्त इति भवति, अन्यत्र भिन्न इति।[3]

अद्-धातुः –

1.    अद्-धातोः तकारादौ किति जग्ध्-आदेशः भवति।[4]

2.   धकारात् परस्य निष्ठातकारस्य धकारादेशः।[5]

3.   हलः परस्य झरः लोपः भवति सवर्णे झरि।[6] धकारस्य लोपः।

4.   अद्-धातोः क्तप्रत्यये अन्न इत्यपि रूपम्।[7]

अद् क्त – अद् त – जग्ध् त – जग्ध् ध – जग्ध। अन्न।

विद् – तुदादिः, रुधादिः, दिवादिः च अनिट्। अदादिः सेट्।

1.    रुधादिगणधातोः विकल्पेन निष्ठातकारस्य नकारादेशः[8]विन्न, वित्त।

2.   दिवादेः विन्न इति भवति।

3.   तुदादेः भोगार्थे प्रत्यये च वित्त इति भवति, अन्यत्र विन्न इति।[9]

4.   अदादिगणः धातुः सेट् अतः विदित इति भवति।

नुद् – नुद्-धातोः परस्य निष्ठातकारस्य विकल्पेन नकारादेशः।[10] नुत्त, नुन्न।

स्कन्द् –

1.    अस्य धातोः उपधायाः नकारस्य लोपः भवति किति।[11]

2.   दकारात् परस्य निष्ठातकरास्य नकारादेशः, पूर्वस्य दकारस्यापि नकारः भवति।[12]

स्कन्द् क्त – स्कन्द् त – स्कद् त – स्कन् न – स्कन्न।

धकारान्ताः – व्यध्, सिध्, क्रुध्, क्षुध्, बुध्, युध्, रुध्, शुध्, राध्, साध्, बन्ध् एते धातवः सामान्यतया अनिटः। परन्तु क्षुध्-धातोः परस् निष्ठाप्रत्ययस्य इट्-आगमः भवति।[13]

1.    झषः परस्य तस्य थस्य च धकारादेशः भवति।[14]

2.   झलां जशः भवन्ति झशि परे[15] इति धकारस्य दकारादेशः भवति तकारे परे।

सिध् क्त – सिध् त – सिध् ध – सिद् ध – सिद्ध।

एवं क्रुध्, बुध्, युध्, रुध्, शुध्, साध् धातूनां रूपाणि भवन्ति।

व्यध् – व्यध्-धातोः सम्प्रसारणं भवति किति परे।[16] सम्प्रसारणे पूर्वरूपैकादेशः।[17]

व्यध् क्त – व्यध् त – वि अ ध् त – विध् त – विध् ध – विद्ध।

बन्ध् – बन्ध्-धातोः उपधायाः नकारस्य लोपः भवति किति।[18]

बन्ध् क्त – बन्ध् त – बध् त – बध् ध – बद् ध – बद्ध।

नकारान्ताः – मन्, हन् इति अनिटौ स्तः। जनी इति ईदित् अतः निष्ठायाः इट्-आगमः न भवति।[19]

1.    किति अनुनासिकस्य लोपः भवति।[20]

हन् क्त – हन् त – ह त – हत।

जन् – जन्-धातोः नकारस्य आकारादेशः भवति झलादौ किति।[21]

जन् क्त – जन् त – जा त – जात।

पकारान्ताः – तप्, वप्, शप्, स्वप्, क्षिप्, तिप्, लिप्, छुप्, लुप्, तृप्, दृप्, सृप्, आप् एते अनिटः।

तप् क्त - तप् त – तप्त।

एवं शप्, क्षिप्, तिप्, लिप्, छुप्, लुप्, तृप्, दृप्, सृप्, आप् एतेषां धातूनां रूपाणि भवन्ति।

वप् – वप्-धातोः किति सम्प्रसारणं भवति।[22] सम्प्रसारणात् पररूपैकादेशः।

वप् क्त – वप् त – उ अ प् त – उप् त – उप्त।

स्वप् – स्वप्-धातोः किति सम्प्रसारणं भवति।[23] सम्प्रसारणात् पररूपैकादेशः भवति।

स्वप् क्त – स्वप् त – सु अ प् त – सुप् त – सुप्त।

भकारान्ताः – यभ्, रभ्, लभ् इति एते अनिटः।

1.    झषः परस्य तकारस्य धकारादेशः भवति।[24]

2.   झशि परे झलः जश् आदेशः भवति।[25]

लभ् क्त – लभ् त – लभ् ध – लब् ध – लब्ध।

एवं यभ्, रभ् अनयोः प्रक्रियापि ज्ञेया।

मकारान्ताः – गम्, नम्, यम्, रम् एते अनिटः सन्ति।

1.    अनुनासिकस्य लोपः भवति किति।[26]

गम् क्त – गम् त – ग त – गत।

अन्ये ये उदितः ऊदितः सन्ति तेभ्यः परस्य निष्ठाप्रत्ययस्य इट् न भवतीति पूर्वमधीतम्। तत्र

1.    अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घः भवति किति।[27]

2.   मकारस्य अनुस्वारः आदेशः भवति झलि।[28]

3.   अनुस्वारस्य परसवर्णादेशः भवति।[29]

शम् क्त – शम् त – शाम् त – शां त – शान्त।

श्रमु क्त – श्रम् त – श्राम् त – श्रां त – श्रान्त।

शकारान्ताः – दिश्, रिश्, लिश्, विश्, रुश्, क्रुश्, दृश्, मृश्, स्पृश्, दंश् एते अनिटः धातवः।

1.    अत्र शकारस्य षकारादेशः भवति झलि।[30]

2.   षकारात् परस्य तकारस्य ष्टुत्वम्।

दिश् क्त – दिश् त – दिष् त – दिष् ट – दिष्ट।

दंश्धातुं विहाय अन्येषां प्रक्रियापि तथैव भवति।

दंश् – दंश्-धातोः उपधायाः लोपः भवति किति।[31]

दंश् क्त – दंश् त – दश् त – दष् त – दष् ट – दष्ट।

षकारान्ताः – त्विष्, द्विष्, पिष्, विष्, शिष्, श्लिष्, तुष्, दुष्, पुष्, शुष्, कृष् एते अनिटः।

अत्र क्तवतु तकारस्य ष्टुत्वं भवति।

त्विष् क्त – त्विष् त – त्विष् ट – त्विष्ट।

अन्येषां प्रक्रियापि इत्थं ज्ञेया।

सकारान्ताः – वस्, घस् एतौ अनिटौ स्तः।

घस् क्त – घस् त – घस्त।

वस् –

1.    वस्-धातोः परस्य निष्ठाप्रत्ययस्य इट्-आगमः भवति।[32]

2.   वस्-धातोः सम्प्रसारणं भवति।[33]

3.   वस्-धातोः सकारस्य षत्वं भवति।[34]

वस् क्त – वस् त – वस् इ त – उ अ स् इत – उस् इत – उष् इत – उषित।

 



[1] अनिदितां हल उपधायाः क्ङिति

[2] रदाभ्यां निष्टातो नः पूर्वस्य दः

[3] भित्तं शकलम्

[4] अदो जग्धिर्ल्यप् ति किति

[5] झषस्तथोर्दोऽधः

[6] झरो झरि सवर्णे

[7] अदोऽनन्ने इति सूत्रे अन्न इति निर्देशात्

[8] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[9] वित्तो भोगप्रत्ययोः

[10] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[11] अनिदितां हल उपधायाः क्ङिति

[12] रदाभ्यां निष्टातो नः पूर्वस्य दः

[13] वसतिक्षुधोरिट्

[14] झषस्तथोर्दोऽधः

[15] झलां जश् झशि

[16] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[17] सम्प्रसारणाच्च

[18] अनिदितां हल उपधायाः क्ङिति

[19] श्वीदितो निष्ठायाम्

[20] अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

[21] जनसनखनां सञ्झलोः

[22] वचिस्वपियजादीनां किति

[23] वचिस्वपियजादीनां किति

[24] झषस्तथोर्धोऽधः

[25] झलां जश् झशि

[26] अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

[27] अनुनासिकस्य क्विझलोः क्ङिति

[28] नश्चापदान्तस्य झलि

[29] अनुस्वारस्य ययि परसवर्णः

[30] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[31] अनिदितां हल उपधायाः क्ङिति

[32] वसतिक्षुधोरिट्

[33] वचिस्वपियजादीनां किति

[34] शासिवसिघसीनां च

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...