Thursday, February 26, 2026

Lesson 3 (तृच्)

 

तृतीयः पाठः – तृच्प्रत्ययः

प्रयोजनानि – अस्मिन् पाठे...

1.    अस्मिन् पाठे तृच्प्रत्ययस्य प्रक्रियां पठामः।

2.   अजन्तधातूनां तृचि प्रक्रियां जानीमः।

3.   हलन्तधातूनां तृचि प्रक्रियां जानीमः।

तृच्-प्रत्ययः –

1.    तृच्प्रत्ययः कर्तरि अर्थे धातोः भवति।[1]

2.   तृच्-प्रत्यये चकारस्य इत्संज्ञा भवति।

3.   तकारादिः। अतः वलादिः, झलादिरपि।

4.   आर्धधातुकसंज्ञकः।

5.   वलादेः आर्धधातुकस्य इट्-आगमः भवति।[2]

अजन्ताः धातवः –

आकारान्ताः –

1.    आकारान्तात् परस्य तृच्-प्रत्ययस्य इट् आगमः न भवति।[3]

यथा – ज्ञा तृच् – ज्ञातृ

दा तृच् – दातृ

इकारान्ताः –

1.    श्रिधातोः श्विधातोः परस्य तृच्-प्रत्ययस्य इट् आगमः भवति।

2.   अन्येभ्यः इकारान्तेभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः न भवति।[4]

3.   तृचः आर्धधातुकत्वात् इगन्तस्य गुणः आदेशः भवति।[5]

यथा – श्रि तृच् – श्रि इ तृ – श्रे इ तृ – अयादेशः – श्रयितृ

श्वि तृच् – श्वि तृ – श्वि इ तृ – श्वे इ तृ – अयादेशः – श्वयितृ

अन्ये इकारान्ताः – चि तृच् – चि तृ – चेतृ, जि तृच् – जि तृ – जेतृ

ईकारान्ताः –

1.    डीङ्-धातोः शीङ्-धातोः च परस्य तृच्प्रत्ययस्य इट्-आगमः भवति।

2.   अन्येभ्यः ईकारान्तेभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः न भवति।[6]

3.   ईकारस्य गुणः भवति तृचि।[7]

यथा – शी तृच् – शी तृ – शी इ तृ – शे इ तृ – शयितृ

डी तृच् – डी तृ – डी इ तृ – डे इ तृ – डयितृ

अन्ये ईकारान्ताः – नी तृच् – नी तृ – नेतृ, क्री तृच् – क्री तृ – क्रेतृ

उकारान्ताः –

1.    यु, रु, नु, स्नु, क्षु, क्ष्णु एतेभ्यः धातुभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः भवति।

2.   अन्येभ्यः उकारान्तेभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः न भवति।[8]

3.   उकारस्य तृचि गुणः भवति।[9]

यथा – यु तृच् – यु तृ – यु इ तृ – यो इ तृ – यवितृ

नु तृच् – नु तृ – नु इ तृ – नो इ तृ – नवितृ

अन्ये उकारान्ताः – श्रु तृच् – श्रु तृ – श्रोतृ

ऊकारान्ताः –

1.    प्रायः ऊकारान्तेभ्यः धातुभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः भवति।

2.   ऊकारस्य तृचि गुणः भवति।[10]

यथा – भू तृच् – भू तृ – भू इ तृ – भो इ तृ – भवितृ

पू तृच् – पू तृ – पू इ तृ – पो इ तृ – पवितृ

विशेषः – ब्रूधातोः तृचि वच्-आदेशः।[11]

ब्रू तृच् – ब्रू तृ – वच् तृ – चकारस्य ककारादेशः – वक्तृ

ऋकारान्ताः –

1.    प्रायः ऋकारान्तेभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः न भवति।[12]

2.   ऋकारस्य गुणः भवति।[13]

यथा – कृ तृच् – कृ तृ – कर्तृ

हृ तृच् – हृ तृ – हर्तृ

ॠकारान्ताः –

1.    ॠकारान्तेभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः भवति।

2.   ॠकारस्य गुणः भवति।[14]

3.   तस्य इट्-आगमस्य विकल्पेन दीर्घः आदेशः भवति।[15]

यथा – तॄ तृच् – तॄ तृ – तॄ इ तृ – तर् इ तृ – तर् इ तृ/तर् ई तृ – तरितृ/तरीतृ

हलन्ताः धातवः

ककारान्ताः

1.    शक्-धातोः परस्य तृच्प्रत्ययस्य इट्-आगमः न भवति।[16]

2.   अन्येभ्यः ककारान्तेभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[17]

यथा – शक् तृच् – शक् तृ – शक्तृ

अन्ये ककारान्ताः – चक् तृच् – चक् तृ – चक् इ तृ – चकितृ

चकारान्ताः –

1.    पच्, वच्, रिच्, विच्, सिच्, मुच् इति एतेभ्यः धातुभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः न भवति।

2.   अन्येभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[18]

4.   चकारस्य ककारादेशः।[19]

यथा – पच् तृच् – पच् तृ – पक्तृ

मुच् तृच् – मुच् तृ – मोच् तृ – मोक्तृ

अन्ये चकारान्ताः – अर्च् तृच् – अर्च् तृ – अर्च् इ तृ – अर्चितृ

छकारान्ताः –

1.    प्रच्छ् धातोः परस्य तृच्प्रत्ययस्य इट्-आगमः न भवति।

2.   अन्येभ्यः छकारान्तेभ्यः परस्य तृच्प्रत्ययस्य इट्-आगमः भवति।

3.   लघूपधस्य इकः गुणः भवति।[20]

4.   प्रच्छ्-धातोः च्छकारस्य षकारादेशः भवति झलि।[21]

यथा – प्रच्छ् तृच् – प्रच्छ् तृ – षकारादेशः – प्रष् तृ – ष्टुत्वम् – प्रष्टृ

अन्ये छकारान्ताः – म्लेच्छ् तृच् – म्लेच्छ् तृ – म्लेच्छ् इ तृ – म्लेच्छितृ

 



[1] ण्वुल्तृचौ

[2] आर्धधातुकस्य इड्वलादेः

[3] एकाच उपदेशेऽनुदात्तात्

[4] एकाच उपदेशेऽनुदात्तात्

[5] सार्वधातुकार्धधातुकयोः

[6] एकाच उपदेशेऽनुदात्तात्

[7] सार्वधातुकार्धधातुकयोः

[8] एकाच उपदेशेऽनुदात्तात्

[9] सार्वधातुकार्धधातुकयोः

[10] सार्वधातुकार्धधातुकयोः

[11] ब्रुवो वचिः

[12] एकाच उपदेशेऽनुदात्तात्

[13] सार्वधातुकार्धधातुकयोः

[14] सार्वधातुकार्धधातुकयोः

[15] तो वा

[16] एकाच उपदेशेऽनुदात्तात्

[17] पुगन्तलघूपधस्य च

[18] पुगन्तलघूपधस्य च

[19] चोः कुः

[20] पुगन्तलघूपधस्य च

[21] व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शां षः

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...