त्रयोदशः पाठः – हलन्तधातूनां क्तप्रक्रिया
प्रयोजनानि –
1. कवर्गान्ताः
2. चवर्गान्ताः
इडागमः –
निष्ठायाम् इडागमे केचन विशेषनियमाः सन्ति। ते अत्र स्मर्तव्याः।
1. आदितः धातोः परस्य निष्ठायाः इट् न भवति।[1]
2. ईदितः धातोः परस्य निष्ठायाः इट् न भवति।[2]
3. यस्य धातोः विभाषा क्वचित् इट् उक्तः तस्य निष्ठायां परतः इट् न भवति।[3]
4. उदितः धातोः परस्य क्त्वाप्रत्ययस्य इट् विकल्पेन भवति,[4] अतः निष्ठायाः इट् न भवति।
5. ऊदितः धातोः परस्य वलादेः आर्धधातुकस्य इट् विकल्पेन भवति,[5] अतः निष्ठायाः इट् न भवति।
कवर्गान्ताः – शक् इति एकः धातुः अनिट्। अन्ये सर्वे सेटः।
शक् क्त – शक् त – शक्त।
लिख् क्त – लिख् त – इडागमः – लिखित।
चवर्गान्ताः – पच्, वच्, रिच्, विच्, सिच्, मुच् एते धातवः अनिटः सन्ति, एतैः सह ईदितः उदितः ऊदितश्च अनिटः सन्ति।
1. पच्-धातोः परस्य निष्ठातकारस्य वकारः।
पच् क्त – पच् त – पच् व – चस्य कुत्वम् – पक्व।
2. वच्-धातोः किति सम्प्रसारणं भवति।[6] सम्प्रसारणे पूर्वरूपैकादेशः।
वच् क्त – वच् त – उ अ च् त – उ च् त – चस्य कुत्वम् – उक्त।
रिच् क्त – रिच् त – रिक् त – रिक्त।
सेटः – चर्च् क्त – चर्च् त – चर्च् इ त – चर्चित।
लोच् क्त – लोच् त – लोच् इ त – लोचित।
छकारान्ताः – प्रच्छ्-धातुः अनिट्।
1. प्रच्छ्-धातोः सम्प्रसारणं भवति।[7]
2. च्छस्य शकारादेशः भवति झलादौ किति।[8]
3. शकारस्य झलि षकारादेशः।[9]
प्रच्छ् क्त – प्रच्छ् त – पृच्छ् त – पृश् त – पृष् त – पृष्ट।
जकारान्ताः – त्यज्, भज्, यज्, निज्, विज्, भुज्, युज्, रुज्, सृज्, भञ्ज्, रञ्ज्, सञ्ज्, स्वञ्ज्, भ्रस्ज्, मस्ज् एते अनिटः। ओलस्जी, ओलजी, ओविजी इति एतेषाम् ईदित्त्वात् निष्ठायाः इट् न।
त्यज् क्त – त्यज् त – कुत्वम् – त्यग् त – चर्त्वम् – त्यक्त।
भज् क्त – भक्त। निज् क्त – निक्त। विज् क्त – विक्त।
भुज् क्त – भुक्त। युज् क्त – युक्त।
यज्-धातुः –
1. यज्-धातोः किति सम्प्रसारणं भवति।[10]
2. यज्-धातोः जकारस्य षकारः भवति।[11]
यज् क्त – यज् त – इ अ ज् त – इज् त – इष् त – इष्ट।
रुज्, भुज् – रुज्-धातुः भुज्-धातुश्च ओदितौ स्तः, अतः निष्ठातकारस्य नकारादेशः। भुजो कौटिल्ये इति अयं धातुः अनिट् ओदिच्च। तथैव ओलस्जी, ओलजी अनयोरपि।
रुज् क्त – रुज् त – कुत्वम् – रुग् त – तस्य नत्वम् – रुग्ण।
भुज् क्त – भुज् त – कुत्वम् – भुग् त – तस्य नत्वम् – भुग्न।
सृज्-धातुः –
1. सृज्-धातोः जकारस्य षकारादेशः।[12]
सृज् क्त – सृज् त – सृष् त – सृष्ट।
भञ्ज्, रञ्ज, सञ्ज्, स्वञ्ज् –
1. अत्र उपधायाः नकारस्य लोपः किति।[13]
भञ्ज् क्त – भञ्ज् त – भज् त – कुत्वम् – भग् त – चर्त्वम् – भक्त।
रञ्ज् क्त – रञ्ज् त – रज् त – कुत्वम् – रग् त – चर्त्वम् – रक्त।
सञ्ज् क्त – सञ्ज् त – सज् त – कुत्वम् – सग् त – चर्त्वम् – सक्त।
स्वञ्ज् क्त – स्वञ्ज् त – स्वज् त – कुत्वम् – स्वग् त – चर्त्वम् – स्वक्त।
भ्रस्ज्-धातुः –
1. भ्रस्ज्-धातोः किति सम्प्रसारणं भवति।[14]
2. झलि यः संयोगः तस्य आदेः सकारस्य लोपः भवति।[15]
3. जकारस्य षकारादेसः भवति झलि।[16]
भ्रस्ज् क्त – भ्रस्ज् त – भृस्ज् त – भृज् त – भृष् त – भृष्ट।
मस्ज्-धातुः –
1. मस्ज्-धातोः झलि नुम्-आगमः भवति।[17]
2. मस्ज्-धातोः नुम्-आगमः अन्त्यात् पूर्वं भवति।[18]
3. झलि यः संयोगः तस्य आदेः सकारस्य लोपः भवति।[19]
4. उपधायाः नकारस्य लोपः भवति किति।[20]
5. अयञ्च ओदित्, अतः निष्ठातकारस्य नकारादेशः।[21]
मस्ज् क्त – मस्ज् त – मस् न् ज् त – म न् ज् त – मज् त – मग् त – मग् न – मग्न।
[1] आदितश्च
[2] श्वीदितो निष्ठायाम्
[3] यस्य विभाषा
[4] उद्तो वा
[5] स्वरतिसूतिसूयतिधूञूदितो वा
[6] वचिस्वपियजादीनां किति
[7] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
[8] च्छ्वोः शूडनुनासिके च
[9] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः
[10] वचिस्वपियजादीनां किति
[11] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः
[12] व्रश्चभ्रस्जसृजमुजयजराजभ्राजच्छशां षः
[13] अनिदितां हल उपधायाः क्ङिति
[14] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च
[15] स्कोः संयोगाद्योरन्ते च
[16] व्रश्चभ्रस्जसृजमुजयजराजभ्राजच्छशां षः
[17] मस्जिनशोर्झलि
[18] मस्जेरन्त्यात् पूर्वं नुम् वाच्यः
[19] स्कोः संयोगाद्योरन्ते च
[20] अनिदितां हल उपधायाः क्ङिति
[21] ओदितश्च
Friday, February 27, 2026
Lesson 13 (क्त)
Subscribe to:
Post Comments (Atom)
Lesson 16 (अनीयर्)
षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1. अनीयर्-प्रत्ययस्य विधानं जानीमः 2. अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3. हलन्तध...
-
प्रथमः पाठः – कृत्परिचयः प्रयोजनानि – अस्मिन् पाठे ... 1. कृत्-संज्ञायाः व्याख्यानं जानीमः। 2. कृतः केभ्यः विहिताः इति जानीमः। ...
-
पञ्चदशः पाठः – तव्यत्-तव्ययोः प्रक्रिया प्रयोजनानि – अस्मिन् पाठे... 1. अस्मिन् पाठे तव्यत्-तव्ययोः प्रक्रियां पठामः। 2. अजन्तधातू...
-
द्वितीयः पाठः – ण्वुल्प्रत्ययः प्रयोजनानि – अस्मिन् पाठे ... 1.अस्मिन् पाठे ण्वुलप्रत्ययस्य प्रक्रियां पठामः। 2. अजन्तधातूनां ण्वुलि ...
No comments:
Post a Comment