Friday, February 27, 2026

Lesson 13 (क्त)

 

त्रयोदशः पाठः – हलन्तधातूनां क्तप्रक्रिया

प्रयोजनानि –

1.    कवर्गान्ताः

2.   चवर्गान्ताः

इडागमः

निष्ठायाम् इडागमे केचन विशेषनियमाः सन्ति। ते अत्र स्मर्तव्याः।

1.    आदितः धातोः परस्य निष्ठायाः इट् न भवति।[1]

2.   ईदितः धातोः परस्य निष्ठायाः इट् न भवति।[2]

3.   यस्य धातोः विभाषा क्वचित् इट् उक्तः तस्य निष्ठायां परतः इट् न भवति।[3]

4.   उदितः धातोः परस्य क्त्वाप्रत्ययस्य इट् विकल्पेन भवति,[4] अतः निष्ठायाः इट् न भवति।

5.   ऊदितः धातोः परस्य वलादेः आर्धधातुकस्य इट् विकल्पेन भवति,[5] अतः निष्ठायाः इट् न भवति।

कवर्गान्ताः – शक् इति एकः धातुः अनिट्। अन्ये सर्वे सेटः।

शक् क्त – शक् त – शक्त।

लिख् क्त – लिख् त – इडागमः – लिखित।

चवर्गान्ताः – पच्, वच्, रिच्, विच्, सिच्, मुच् एते धातवः अनिटः सन्ति, एतैः सह ईदितः उदितः ऊदितश्च अनिटः सन्ति।

1.    पच्-धातोः परस्य निष्ठातकारस्य वकारः।

पच् क्त – पच् त – पच् व – चस्य कुत्वम् – पक्व।

2.   वच्-धातोः किति सम्प्रसारणं भवति।[6] सम्प्रसारणे पूर्वरूपैकादेशः।

वच् क्त – वच् त – उ अ च् त – उ च् त – चस्य कुत्वम् – उक्त।

रिच् क्त – रिच् त – रिक् त – रिक्त।

सेटः – चर्च् क्त – चर्च् त – चर्च् इ त – चर्चित।

लोच् क्त – लोच् त – लोच् इ त – लोचित।

छकारान्ताः – प्रच्छ्-धातुः अनिट्।

1.    प्रच्छ्-धातोः सम्प्रसारणं भवति।[7]

2.   च्छस्य शकारादेशः भवति झलादौ किति।[8]

3.   शकारस्य झलि षकारादेशः।[9]

प्रच्छ् क्त – प्रच्छ् त – पृच्छ् त – पृश् त – पृष् त – पृष्ट।

जकारान्ताः – त्यज्, भज्, यज्, निज्, विज्, भुज्, युज्, रुज्, सृज्, भञ्ज्, रञ्ज्, सञ्ज्, स्वञ्ज्, भ्रस्ज्, मस्ज् एते अनिटः। ओलस्जी, ओलजी, ओविजी इति एतेषाम् ईदित्त्वात् निष्ठायाः इट् न।

त्यज् क्त – त्यज् त – कुत्वम् – त्यग् त – चर्त्वम् – त्यक्त।

भज् क्त – भक्त। निज् क्त – निक्त। विज् क्त – विक्त।

भुज् क्त – भुक्त। युज् क्त – युक्त।

यज्-धातुः –

1.    यज्-धातोः किति सम्प्रसारणं भवति।[10]

2.   यज्-धातोः जकारस्य षकारः भवति।[11]

यज् क्त – यज् त – इ अ ज् त – इज् त – इष् त – इष्ट।

रुज्, भुज् – रुज्-धातुः भुज्-धातुश्च ओदितौ स्तः, अतः निष्ठातकारस्य नकारादेशः। भुजो कौटिल्ये इति अयं धातुः अनिट् ओदिच्च। तथैव ओलस्जी, ओलजी अनयोरपि।

रुज् क्त – रुज् त – कुत्वम् – रुग् त – तस्य नत्वम् – रुग्ण।

भुज् क्त – भुज् त – कुत्वम् – भुग् त – तस्य नत्वम् – भुग्न।

सृज्-धातुः –

1.    सृज्-धातोः जकारस्य षकारादेशः।[12]

सृज् क्त – सृज् त – सृष् त – सृष्ट।

भञ्ज्, रञ्ज, सञ्ज्, स्वञ्ज् –

1.    अत्र उपधायाः नकारस्य लोपः किति।[13]

भञ्ज् क्त – भञ्ज् त – भज् त – कुत्वम् – भग् त – चर्त्वम् – भक्त।

रञ्ज् क्त – रञ्ज् त – रज् त – कुत्वम् – रग् त – चर्त्वम् – रक्त।

सञ्ज् क्त – सञ्ज् त – सज् त – कुत्वम् – सग् त – चर्त्वम् – सक्त।

स्वञ्ज् क्त – स्वञ्ज् त – स्वज् त – कुत्वम् – स्वग् त – चर्त्वम् – स्वक्त।

भ्रस्ज्-धातुः –

1.    भ्रस्ज्-धातोः किति सम्प्रसारणं भवति।[14]

2.   झलि यः संयोगः तस्य आदेः सकारस्य लोपः भवति।[15]

3.   जकारस्य षकारादेसः भवति झलि।[16]

भ्रस्ज् क्त – भ्रस्ज् त – भृस्ज् त – भृज् त – भृष् त – भृष्ट।

मस्ज्-धातुः –

1.    मस्ज्-धातोः झलि नुम्-आगमः भवति।[17]

2.   मस्ज्-धातोः नुम्-आगमः अन्त्यात् पूर्वं भवति।[18]

3.   झलि यः संयोगः तस्य आदेः सकारस्य लोपः भवति।[19]

4.   उपधायाः नकारस्य लोपः भवति किति।[20]

5.   अयञ्च ओदित्, अतः निष्ठातकारस्य नकारादेशः।[21]

मस्ज् क्त – मस्ज् त – मस् न् ज् त – म न् ज् त – मज् त – मग् त – मग् न – मग्न।



[1] आदितश्च

[2] श्वीदितो निष्ठायाम्

[3] यस्य विभाषा

[4] उद्तो वा

[5] स्वरतिसूतिसूयतिधूञूदितो वा

[6] वचिस्वपियजादीनां किति

[7] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[8] च्छ्वोः शूडनुनासिके च

[9] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[10] वचिस्वपियजादीनां किति

[11] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[12] व्रश्चभ्रस्जसृजमुजयजराजभ्राजच्छशां षः

[13] अनिदितां हल उपधायाः क्ङिति

[14] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[15] स्कोः संयोगाद्योरन्ते च

[16] व्रश्चभ्रस्जसृजमुजयजराजभ्राजच्छशां षः

[17] मस्जिनशोर्झलि

[18] मस्जेरन्त्यात् पूर्वं नुम् वाच्यः

[19] स्कोः संयोगाद्योरन्ते च

[20] अनिदितां हल उपधायाः क्ङिति

[21] ओदितश्च

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...