Thursday, February 26, 2026

Lesson 4 (तृच्)

 

चतुर्थः पाठः – तृच्प्रत्ययः(2)

प्रयोजनानि –

1.    अवशिष्टानां हलन्तधातूनां तृचि प्रक्रियां जानीमः।

जकारान्ताः –

1.    जकारान्तेषु त्यज्, भज्, यज्, निज्, विज्, भुज्, युज्, रुज्, सृज्, भञ्ज्, रञ्ज्, सञ्ज्, स्वञ्ज्, भ्रस्ज्, मस्ज् इति एतेभ्यः परस्य तृच्-प्रत्ययस्य इट्-आगमः न भवति।

2.   अन्येभ्यः परस्य तृच्-प्रत्ययस्य इट्-आगमः भवति।

3.   इडागमाभावे जकारस्य कुत्वम्(गकारः)[1], तस्य च चर्त्वम्।[2]

त्यज् तृच् – त्यज् तृ – त्यग् तृ – त्यक्तृ। एवं भज्, निज्, विज्, भुज्, रुज्, युज्, भञ्ज्, रञ्ज्, स्वञ्ज्, सञ्ज् एतेषामपि प्रक्रिया ज्ञेया।

यज्-धातुः – यज् तृच् – यज्-धातोः जकारस्य षकारादेशः[3] – यष् तृ – ष्टुत्वम् – यष्टृ, यष्टा।

सृज्-धातुः – सृज् तृच्,

1.    सृज्-धातोः अकिति प्रत्यये परे अम्-आगमः भवति।[4]

2.   यणादेशः भवति।

3.   जकारस्य षकारादेशः भवति।[5]

सृज् तृच् – सृज् तृ – सृ अम् ज् तृ – सृ अ ज् तृ – स्रज् तृ – स्रष् तृ – स्रष्टृ, स्रष्टा।

मस्ज्-धातुः

1.    मस्ज्-धातोः झलादौ प्रत्यये परे नुम्-आगमः भवति।[6]

2.   मस्ज्-धातोः नुम् अन्त्यात् पूर्वं भवति।[7]

3.   पदान्ते झलि च परे यः संयोगः तदादेः सकारस्य लोपः भवति।[8]

मस्ज् तृच् – मस्ज् तृ – मस् न् ज् तृ – संयोगादेः सकारस्य लोपः – मन् ज् तृ – जस्य कुत्वम्, नस्य अनुस्वारः, गस्य चर्त्वम्, अनुस्वारस्य परसवर्णादेशः – मङ्क् तृ – मङ्क्ता।

भ्रस्ज्-धातुः

1.    भ्रस्ज्-धातोः आर्धधातुके प्रत्यये परे रेफस्य उपधायाश्च रम्-आगमः भवति विकल्पेन।[9]

2.   भ्रस्ज्-धातोः जकारस्य षकारादेशः भवति।[10]

3.   रमागमाभावे, पदान्ते झलि च परे यः संयोगः तदादेः सकारस्य लोपः भवति।[11]

4.   भ्रस्ज्-धातोः जकारस्य षकारादेशः भवति।[12]

भ्रस्ज् तृच् – भ्रस्ज् तृ – रमागमः, भ् र् ज् तृ – भर्ष् तृ – भर्ष्टृ, भर्ष्टा।

भ्रस्ज् तृच् – भ्रस्ज् त – संयोगादेः सकारस्य लोपः – भ्रज् तृ – भ्रष् तृ – भ्रष्टृ, भ्रष्टा।

दकारान्ताः धातवः –

1.    अद्, पद्,शद्, सद्, हद्, खिद्, छिद्, भिद्, विद्, स्विद्, क्षुद्, तुद्, नुद्, स्कन्द् एतेभ्यः परस्य तृचः इट् न भवति।

2.   उपधायाः लघोः इकः गुणः भवति।[13]

3.   दकारस्य चर्त्वं भवति।[14]

अद् तृच् – अद् तृ – अत् तृ, अत्ता।

भिद् तृच् – भिद् तृ – भेद् तृ – भेत् तृ, भेत्ता।

धकारान्ताः धातवः –

1.    व्यध्, सिध्, क्रुध्, क्षुध्, बुध्, युध्, रुध्, शुध्, राध्, साध्, बन्ध् इति एतेभ्यः धातुभ्यः परस्य तृच्-प्रत्ययस्य इट् न भवति।

2.   उपधायाः लघोः इकः गुणः भवति।[15]

3.   झषःपरस्य तकारस्य धकारादेशः भवति।[16]

4.   धातोः धकारस्य जश्त्वं भवति।[17]

बुध् तृच् – बुध् तृ – बोध् तृ – बोध् धृ – बोद् धृ – बोद्धृ, बोद्धा।

नकारान्ताः धातवः –

1.    मन्, हन् अनयोः परस्य तृच्प्रत्ययस्य इट् न भवति।

2.   नस्य अनुस्वारः भवति।[18]

3.   अनुस्वारस्य परसवर्णादेशः भवति।[19]

मन् तृच् – मन् तृ – मं तृ – मन्तृ, मन्ता।

पकारान्ताः धातवः –

1.    तप्, वप्, शप्, स्वप्, क्षिप्, तिप्, लिप्, छुप्, लुप्, तृप्, दृप्, सृप्, आप् एतेभ्यः परस्य तृच्-प्रत्ययस्य इट् न भवति।

2.   ऋदुपधधातोः झलादौ अकिति प्रत्यये विकल्पेन अम्-आगमः।[20]

3.   अमागमे यणादेशः भवति। अमागमाभावे तु गुणः एव।

4.   उपधायाः लघोः इकः गुणः भवति आर्धधातुके।

तप् तृच् – तप् तृ – तप्तृ, तप्ता।

लिप् तृच् – लिप् तृ – लेप् तृ – लेप्तृ, लेप्ता।

सृप् तृच् – सृप् तृ – अमागमः – सृ अ प् तृ – स्रप् तृ – स्रप्तृ, स्रप्ता।

सृप् तृच् – सृप् तृ – सर्प् तृ – सर्प्तृ, सर्प्ता

विशेषः – तृप् दृप् अनयोः परस्य तृचः वा इट्, इडागमाभावे, झलादौ अकिति धातोः विकल्पेन अम्-आगमः। अमागामाभावे तु गुणः। इडागमे अपि गुणः एव भवति अमागमः न भवति झलादित्वाभावात्।

तृप् तृच् – तृप् तृ – तृ अम् तृ – त्रप् तृ – त्रप्तृ, त्रप्ता।

तृप् तृच् – तृप् तृ – तर्प् तृ – तर्प्तृ, तर्प्ता।

तृप् तृच् – तृप् तृ – तृप् इ तृ – तर्प् इतृ – तर्पितृ, तर्पिता।

भकारान्ताः धातवः –

1.    यभ्, रभ्, लभ् एतेभ्यः परस्य तृच्प्रत्ययस्य इट् न भवति।

2.   झषःपरस्य तकारस्य धकारादेशः भवति।[21]

3.   धातोः भकारस्य जश्त्वं भवति।[22]

लभ् तृच् – लभ् तृ – लभ् धृ – लब्धृ, लब्धा।

मकारान्ताः धातवः –

1.    यम्, रम्, नम्, गम् इति एतेभ्यः परस्य तृच्-प्रत्ययस्य इट् न भवति।

2.   मकारस्य अनुस्वारादेशः।

3.   अनुस्वारस्य परसवर्णादेशश्च।

गम् तृच् – गम् तृ – गं तृ – गन्तृ, गन्ता।

शकारान्ताः धातवः –

1.    दिश्, रिश्, लिश्, विश्, रुश्, क्रुश्, दृश्, मृश्, स्पृश्, दंश् एतेभ्यः परस्य तृच्-प्रत्ययस्य इट् न भवति।

2.   दृश्धातोः झलादौ अकिति अम्-आगमः भवति।[23]

3.   स्पृश् मृश् धातुभ्यां झलादौ अकिति विकल्पेन अम्-आगमः भवति।[24]

4.   अमागमाभावे ऋकास्य गुणः भवति।

5.   उपधायाः लघोः इकः गुणः भवति।

6.   शकारस्य षकारादेशः भवति।[25]

क्रुश् तृच् – क्रुश् तृ – क्रोश् तृ – क्रोष् तृ – क्रोष् टृ – क्रोष्टृ, क्रोष्टा।

स्पृश् तृच् – स्पृश् तृ – स्पृ अ श् तृ – अमागमः – स्पृ अ श् तृ – स्प्रश् तृ – स्प्रष् तृ – स्प्रष्टृ. स्प्रष्टा।

स्पृश् तृच् – स्पृश् तृ – स्पर्श् तृ – स्पर्ष् तृ – स्पर्ष्टृ, स्पर्ष्टा।

दृश् तृच् – दृश् तृ – अमागमः – दृ अ श् तृ – द्रश् तृ – द्रष् तृ – द्रष्टृ, द्रष्टा।

षकारान्ताः धातवः –

1.    त्विष्, द्विष्, पिष्, विष्, शिष्, श्लिष्, तुष्, दुष्, पुष्, शुष्, कृष् एतेभ्यः परस्य तृच्-प्रत्ययस्य इट् न भवति।

2.   कृष्-धातोः झलादौ अकिति अम्-आगमः विकल्पेन भवति।[26]

3.   अमागमाभावे तु गुणः अव भवति।

4.   आर्धधातुके उपधायाः लघोः इकः गुणः भवति।

द्विष् तृच् – द्विष् तृ – द्वेष् तृ – द्वेष्टृ, द्वेष्टा।

कृष् तृच् – कृष् तृ – कृ अ ष् तृ – क्रष् तृ – क्रष्टृ, क्रष्टा।

कृष् तृच् – कृष् तृ – गुणः – कर्ष् तृ – कर्ष्टृ, कर्ष्टा।

सकारान्ताः धातवः -

1.    वस्, घस् आभ्यां परस्य तृच्-प्रत्ययस्य इट् न भवति।

2.   अस्धातोः भू-आदेशः भवति।

वस् तृच् – वस् तृ – वस्तृ, वस्ता।

अस् तृच् – अस् तृ – भू तृ – भू इ तृ – भो इ तृ – भवितृ. भविता।

 



[1] चोः कुः

[2] खरि च

[3] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[4] सृजिदृशोर्झल्यमकिति

[5] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[6] मस्जिनशोर्झलि

[7] मस्जेरन्त्यात् पूर्वो नुम् वक्तव्यः

[8] स्कोः संयोगाद्योरन्ते च

[9] भ्रस्जो रोपधयोः रमन्यतरस्याम्

[10] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[11] स्कोः संयोगाद्योरन्ते च

[12] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[13] पुगन्तस्य लघूपधस्य च

[14] खरि च

[15] पुगन्तस्य लघूपधस्य च

[16] झषस्तथोर्धोऽधः

[17] झलां जश् झशि

[18] नश्चापदान्तस्य झलि

[19] अनुस्वारस्य ययि परसवर्णः

[20] अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्

[21] झषस्तथोर्धोऽधः

[22] झलां जश् झशि

[23] सृजिदृशोर्झल्यमकिति

[24] अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्

[25] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[26] अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...