Friday, February 27, 2026

Lesson 10 (क्तवतु)

 

दशमः पाठः – हलन्तधातूनां क्तवतुप्रक्रिया

प्रयोजनानि –

1.    कवर्गान्ताः

2.   चवर्गान्ताः

इडागमः

निष्ठायाम् इडागमे केचन विशेषनियमाः सन्ति। ते अत्र स्मर्तव्याः।

1.    आदितः धातोः परस्य निष्ठायाः इट् न भवति।[1]

2.   ईदितः धातोः परस्य निष्ठायाः इट् न भवति।[2]

3.   यस्य धातोः विभाषा क्वचित् इट् उक्तः तस्य निष्ठायां परतः इट् न भवति।[3]

4.   उदितः धातोः परस्य क्त्वाप्रत्ययस्य इट् विकल्पेन भवति,[4] अतः निष्ठायाः इट् न भवति।

5.   ऊदितः धातोः परस्य वलादेः आर्धधातुकस्य इट् विकल्पेन भवति,[5] अतः निष्ठायाः इट् न भवति।

कवर्गान्ताः – शक् इति एकः धातुः अनिट्। अन्ये सर्वे सेटः।

शक् क्तवतु – शक् तवत् – शक्तवत्।

लिख् क्तवतु – लिख् तवत् – इडागमः – लिखितवत्।

चवर्गान्ताः – पच्, वच्, रिच्, विच्, सिच्, मुच् एते धातवः अनिटः सन्ति, एतैः सह ईदितः उदितः ऊदितश्च अनिटः सन्ति।

1.    पच्-धातोः परस्य निष्ठातकारस्य वकारः।

पच् क्तवतु – पच् तवत् – पच् व वत् – चस्य कुत्वम् – पक्ववत्।

2.   वच्-धातोः किति सम्प्रसारणं भवति।[6] सम्प्रसारणे पूर्वरूपैकादेशः।

वच् क्तवतु – वच् तवत् – उ अ च् तवत् – उ च् तवत् – चस्य कुत्वम् – उक्तवत्।

रिच् क्तवतु – रिच् तवत् – रिक् तवत् – रिक्तवत्।

सेटः – चर्च् क्तवतु – चर्च् तवत् – चर्च् इ तवत् – चर्चितवत्।

लोच् क्तवतु – लोच् तवत् – लोच् इ तवत् – लोचितवत्।

छकारान्ताः – प्रच्छ्-धातुः अनिट्।

1.    प्रच्छ्-धातोः सम्प्रसारणं भवति।[7]

2.   च्छस्य शकारादेशः भवति झलादौ किति।[8]

3.   शकारस्य झलि षकारादेशः।[9]

प्रच्छ् क्तवतु – प्रच्छ् तवत् – पृच्छ् तवत् – पृश् तवत् – पृष् तवत् – पृष्टवत्।

जकारान्ताः – त्यज्, भज्, यज्, निज्, विज्, भुज्, युज्, रुज्, सृज्, भञ्ज्, रञ्ज्, सञ्ज्, स्वञ्ज्, भ्रस्ज्, मस्ज् एते अनिटः। ओलस्जी, ओलजी, ओविजी इति एतेषाम् ईदित्त्वात् निष्ठायाः इट् न।

त्यज् क्तवतु – त्यज् तवत् – कुत्वम् – त्यग् तवत् – चर्त्वम् – त्यक्तवत्।

भज् क्तवतु – भक्तवत्। निज् क्तवतु – निक्तवत्। विज् क्तवतु – विक्तवत्।

भुज् क्तवतु – भुक्तवत्। युज् क्तवतु – युक्तवत्।

यज्-धातुः –

1.    यज्-धातोः किति सम्प्रसारणं भवति।[10]

2.   यज्-धातोः जकारस्य षकारः भवति।[11]

यज् क्तवतु – यज् तवत् – इ अ ज् तवत् – इज् तवत् – इष् तवत् – इष्टवत्।

रुज्, भुज् – रुज्-धातुः भुज्-धातुश्च ओदितौ स्तः, अतः निष्ठातकारस्य नकारादेशः। भुजो कौटिल्ये इति अयं धातुः अनिट् ओदिच्च। तथैव ओलस्जी, ओलजी अनयोरपि।

रुज् क्तवतु – रुज् तवत् – कुत्वम् – रुग् तवत् – तस्य नत्वम् – रुग्णवत्।

भुज् क्तवतु – भुज् तवत् – कुत्वम् – भुग् तवत् – तस्य नत्वम् – भुग्नवत्।

सृज्-धातुः –

1.    सृज्-धातोः जकारस्य षकारादेशः।[12]

सृज् क्तवतु – सृज् तवत् – सृष् तवत् – सृष्टवत्।

भञ्ज्, रञ्ज, सञ्ज्, स्वञ्ज् –

1.    अत्र उपधायाः नकारस्य लोपः किति।[13]

भञ्ज् क्तवतु – भञ्ज् तवत् – भज् तवत् – कुत्वम् – भग् तवत् – चर्त्वम् – भक्तवत्।

रञ्ज् क्तवतु – रञ्ज् तवत् – रज् तवत् – कुत्वम् – रग् तवत् – चर्त्वम् – रक्तवत्।

सञ्ज् क्तवतु – सञ्ज् तवत् – सज् तवत् – कुत्वम् – सग् तवत् – चर्त्वम् – सक्तवत्।

स्वञ्ज् क्तवतु – स्वञ्ज् तवत् – स्वज् तवत् – कुत्वम् – स्वग् तवत् – चर्त्वम् – स्वक्तवत्।

भ्रस्ज्-धातुः –

1.    भ्रस्ज्-धातोः किति सम्प्रसारणं भवति।[14]

2.   झलि यः संयोगः तस्य आदेः सकारस्य लोपः भवति।[15]

3.   जकारस्य षकारादेसः भवति झलि।[16]

भ्रस्ज् क्तवतु – भ्रस्ज् तवत् – भृस्ज् तवत् – भृज् तवत् – भृष् तवत् – भृष्टवत्।

मस्ज्-धातुः –

1.    मस्ज्-धातोः झलि नुम्-आगमः भवति।[17]

2.   मस्ज्-धातोः नुम्-आगमः अन्त्यात् पूर्वं भवति।[18]

3.   झलि यः संयोगः तस्य आदेः सकारस्य लोपः भवति।[19]

4.   उपधायाः नकारस्य लोपः भवति किति।[20]

5.   अयञ्च ओदित्, अतः निष्ठातकारस्य नकारादेशः।[21]

मस्ज् क्तवतु – मस्ज् तवत् – मस् न् ज् तवत् – म न् ज् तवत् – मज् तवत् – मग् तवत् – मग् नवत् – मग्नवत्।



[1] आदितश्च

[2] श्वीदितो निष्ठायाम्

[3] यस्य विभाषा

[4] उद्तो वा

[5] स्वरतिसूतिसूयतिधूञूदितो वा

[6] वचिस्वपियजादीनां किति

[7] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[8] च्छ्वोः शूडनुनासिके च

[9] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[10] वचिस्वपियजादीनां किति

[11] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[12] व्रश्चभ्रस्जसृजमुजयजराजभ्राजच्छशां षः

[13] अनिदितां हल उपधायाः क्ङिति

[14] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[15] स्कोः संयोगाद्योरन्ते च

[16] व्रश्चभ्रस्जसृजमुजयजराजभ्राजच्छशां षः

[17] मस्जिनशोर्झलि

[18] मस्जेरन्त्यात् पूर्वं नुम् वाच्यः

[19] स्कोः संयोगाद्योरन्ते च

[20] अनिदितां हल उपधायाः क्ङिति

[21] ओदितश्च

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...