Friday, February 27, 2026

Lesson 11 (क्तवतु)

 

एकादशः पाठः – हलन्तधातूनां क्तवतुप्रक्रिया(2)

प्रयोजनानि –

1.    तवर्गान्ताः

2.   पवर्गान्ताः

3.   शषसान्ताः

तवर्गान्ताः –

तकारान्ताः – तकारान्तेषु ईदितः उदितः आदितः ये सन्ति तेभ्यः परस्य निष्ठाप्रत्ययस्य इट् न भवति।

1.    ईदितः – कृती, चिती, चृती, नृती, यती

2.   उदित् – वृतु

3.   आदित् – श्विता।

कृत् क्तवतु – कृत् तवत् – कृत्तवत्।

थकारान्ताः – थकारान्तेषु ग्रन्थ्, श्रन्थ्, मन्थ्, कुन्थ् एतेषाम् उपधायाः नकारस्य लोपः भवति किति।[1]

ग्रन्थ् क्तवतु – ग्रन्थ् तवत् – ग्रन्थ् इ तवत् – नलोपः – ग्रथ् इ तवत् – ग्रथितवत्।

दकारान्ताः

1.    अद्, पद्, शद्, षद्, हद्, खिद्, छिद्, भिद्, विद्, स्विद्, क्षुद्, तुद्, नुद्, स्कन्द् एते धातवः अनिटः।

2.   दकारात् परस्य निष्ठातकरास्य नकारादेशः, पूर्वस्य दकारस्यापि नकारः भवति।[2]

पद् क्तवतु – पद् तवत् – पन् नवत् – पन्नवत्।

एवं शद् हद्, खिद्, छिद्, भिद्, स्विद्, क्षुद्, तुद् इत्येषां रूपाणि भवन्ति।

अद्-धातुः –

1.    अद्-धातोः तकारादौ किति जग्ध्-आदेशः भवति।[3]

2.   धकारात् परस्य निष्ठातकारस्य धकारादेशः।[4]

3.   हलः परस्य झरः लोपः भवति सवर्णे झरि।[5] धकारस्य लोपः।

अद् क्तवतु – अद् तवत् – जग्ध् तवत् – जग्ध् धवत् – जग्धवत्।

विद् – तुदादिः, रुधादिः, दिवादिः च अनिट्, रुधादिगणधातोः विकल्पेन निष्ठातकारस्य नकारादेशः[6] – विन्नवत्, वित्तवत्। अन्यत्र वित्तवत्। अदादिगणः धातुः सेट् अतः विदितवत् इति भवति।

नुद् – नुद्-धातोः परस्य निष्ठातकारस्य विकल्पेन नकारादेशः।[7] नुत्तवत्, नुन्नवत्।

स्कन्द् –

1.    अस्य धातोः उपधायाः नकारस्य लोपः भवति किति।[8]

2.   दकारात् परस्य निष्ठातकरास्य नकारादेशः, पूर्वस्य दकारस्यापि नकारः भवति।[9]

स्कन्द् क्तवतु – स्कन्द् तवत् – स्कद् तवत् – स्कन् नवत् – स्कन्नवत्।

धकारान्ताः – व्यध्, सिध्, क्रुध्, क्षुध्, बुध्, युध्, रुध्, शुध्, राध्, साध्, बन्ध् एते धातवः सामान्यतया अनिटः। परन्तु क्षुध्-धातोः परस् निष्ठाप्रत्ययस्य इट्-आगमः भवति।[10]

1.    झषः परस्य तस्य थस्य च धकारादेशः भवति।[11]

2.   झलां जशः भवन्ति झशि परे[12] इति धकारस्य दकारादेशः भवति तकारे परे।

सिध् क्तवतु – सिध् तवत् – सिध् धवत् – सिद् धवत् – सिद्धवत्।

एवं क्रुध्, बुध्, युध्, रुध्, शुध्, साध् धातूनां रूपाणि भवन्ति।

व्यध् – व्यध्-धातोः सम्प्रसारणं भवति किति परे।[13] सम्प्रसारणे पूर्वरूपैकादेशः।[14]

व्यध् क्तवतु – व्यध् तवत् – वि अ ध् तवत् – विध् तवत् – विध् धवत् – विद्धवत्।

बन्ध् – बन्ध्-धातोः उपधायाः नकारस्य लोपः भवति किति।[15]

बन्ध् क्तवतु – बन्ध् तवत् – बध् तवत् – बध् धवत् – बद् धवत् – बद्धवत्।

नकारान्ताः – मन्, हन् इति अनिटौ स्तः। जनी इति ईदित् अतः निष्ठायाः इट्-आगमः न भवति।[16]

1.    किति अनुनासिकस्य लोपः भवति।[17]

हन् क्तवतु – हन् तवत् – ह तवत् – हतवत्।

जन् – जन्-धातोः नकारस्य आकारादेशः भवति झलादौ किति।[18]

जन् क्तवतु – जन् तवत् – जा तवत् – जातवत्।

पकारान्ताः – तप्, वप्, शप्, स्वप्, क्षिप्, तिप्, लिप्, छुप्, लुप्, तृप्, दृप्, सृप्, आप् एते अनिटः।

तप् क्तवतु - तप् तवत् – तप्तवत्।

एवं शप्, क्षिप्, तिप्, लिप्, छुप्, लुप्, तृप्, दृप्, सृप्, आप् एतेषां धातूनां रूपाणि भवन्ति।

वप् – वप्-धातोः किति सम्प्रसारणं भवति।[19] सम्प्रसारणात् पररूपैकादेशः।

वप् क्तवतु – वप् तवत् – उ अ प् तवत् – उप् तवत् – उप्तवत्।

स्वप् – स्वप्-धातोः किति सम्प्रसारणं भवति।[20] सम्प्रसारणात् पररूपैकादेशः भवति।

स्वप् क्तवतु – स्वप् तवत् – सु अ प् तवत् – सुप् तवत् – सुप्तवत्।

भकारान्ताः – यभ्, रभ्, लभ् इति एते अनिटः।

1.    झषः परस्य तकारस्य धकारादेशः भवति।[21]

2.   झशि परे झलः जश् आदेशः भवति।[22]

लभ् क्तवतु – लभ् तवत् – लभ् धवत् – लब् धवत् – लब्धवत्।

एवं यभ्, रभ् अनयोः प्रक्रियापि ज्ञेया।

मकारान्ताः – गम्, नम्, यम्, रम् एते अनिटः सन्ति।

1.    अनुनासिकस्य लोपः भवति किति।[23]

गम् क्तवतु – गम् तवत् – ग तवत् – गतवत्।

अन्ये ये उदितः ऊदितः सन्ति तेभ्यः परस्य निष्ठाप्रत्ययस्य इट् न भवतीति पूर्वमधीतम्। तत्र

1.    अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घः भवति किति।[24]

2.   मकारस्य अनुस्वारः आदेशः भवति झलि।[25]

3.   अनुस्वारस्य परसवर्णादेशः भवति।[26]

शम् क्तवतु – शम् तवत् – शाम् तवत् – शां तवत् – शान्तवत्।

श्रमु क्तवतु – श्रम् तवत् – श्राम् तवत् – श्रां तवत् – श्रान्तवत्।

शकारान्ताः – दिश्, रिश्, लिश्, विश्, रुश्, क्रुश्, दृश्, मृश्, स्पृश्, दंश् एते अनिटः धातवः।

1.    अत्र शकारस्य षकारादेशः भवति झलि।[27]

2.   षकारात् परस्य तकारस्य ष्टुत्वम्।

दिश् क्तवतु – दिश् तवत् – दिष् तवत् – दिष् टवत् – दिष्टवत्।

दंश्धातुं विहाय अन्येषां प्रक्रियापि तथैव भवति।

दंश् – दंश्-धातोः उपधायाः लोपः भवति किति।[28]

दंश् क्तवतु – दंश् तवत् – दश् तवत् – दष् तवत् – दष् टवत् – दष्टवत्।

षकारान्ताः – त्विष्, द्विष्, पिष्, विष्, शिष्, श्लिष्, तुष्, दुष्, पुष्, शुष्, कृष् एते अनिटः।

अत्र क्तवतु तकारस्य ष्टुत्वं भवति।

त्विष् क्तवतु – त्विष् तवत् – त्विष् टवत् – त्विष्टवत्।

अन्येषां प्रक्रियापि इत्थं ज्ञेया।

सकारान्ताः – वस्, घस् एतौ अनिटौ स्तः।

घस् क्तवतु – घस् तवत् – घस्तवत्।

वस् –

1.    वस्-धातोः परस्य निष्ठाप्रत्ययस्य इट्-आगमः भवति।[29]

2.   वस्-धातोः सम्प्रसारणं भवति।[30]

3.   वस्-धातोः सकारस्य षत्वं भवति।[31]

वस् क्तवतु – वस् तवत् – वस् इ तवत् – उ अ स् इतवत् – उस् इतवत् – उष् इतवत् – उषितवत्।



[1] अनिदितां हल उपधायाः क्ङिति

[2] रदाभ्यां निष्टातो नः पूर्वस्य दः

[3] अदो जग्धिर्ल्यप् ति किति

[4] झषस्तथोर्दोऽधः

[5] झरो झरि सवर्णे

[6] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[7] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[8] अनिदितां हल उपधायाः क्ङिति

[9] रदाभ्यां निष्टातो नः पूर्वस्य दः

[10] वसतिक्षुधोरिट्

[11] झषस्तथोर्दोऽधः

[12] झलां जश् झशि

[13] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[14] सम्प्रसारणाच्च

[15] अनिदितां हल उपधायाः क्ङिति

[16] श्वीदितो निष्ठायाम्

[17] अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

[18] जनसनखनां सञ्झलोः

[19] वचिस्वपियजादीनां किति

[20] वचिस्वपियजादीनां किति

[21] झषस्तथोर्धोऽधः

[22] झलां जश् झशि

[23] अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति

[24] अनुनासिकस्य क्विझलोः क्ङिति

[25] नश्चापदान्तस्य झलि

[26] अनुस्वारस्य ययि परसवर्णः

[27] व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः

[28] अनिदितां हल उपधायाः क्ङिति

[29] वसतिक्षुधोरिट्

[30] वचिस्वपियजादीनां किति

[31] शासिवसिघसीनां च

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...