Friday, February 27, 2026

Lesson 9 (क्तवतु)

 

नवमः पाठः – क्तवतुप्रक्रिया

प्रयोजनानि –

1.    क्तवतुप्रत्ययस्य परिचयः।

2.   आकारान्तानां क्तवतुप्रक्रियां पठामः।

3.   इकारान्तधातूनां क्तवतुप्रक्रियां पठामः।

4.   ईकारान्तधातूनां क्तवतुप्रक्रियां पठामः।

5.   उकारान्तधातूनां क्तवतुप्रक्रियां पठामः।

6.   ऋकारान्तधातूनां क्तवतुप्रक्रियां पठामः।

7.   ॠकारान्तधातूनां क्तवतुप्रक्रियां पठामः।

क्तवतुप्रत्ययः

1.    क्तवतुप्रत्ययस्य निष्ठा इति संज्ञा।[1]

2.   अस्मिन् प्रत्यये ककारस्य उकारस्य इत्संज्ञा।

3.   अयञ्च कित्-प्रत्ययः, वलादिः आर्धधातुकञ्च।

4.   वलादित्वात् इट्-आगमः कर्तव्यः।

5.   कित्वात् गुणस्य निषेधः, केषाञ्चन धातूनां सम्प्रसारणम्, नलोपः।

6.   क्तवतुप्रत्ययस्य तकारस्य नकारादयः आदेशाः भवन्ति।

आकारान्ताः धातवः –

1.    आकारान्ताः अनिटः धातवः।[2]

2.   एजन्तधातूनां आकारादेशः भवति।[3]

अतः तेषामपि प्रक्रिया आकारान्तानामिव ज्ञेया।

ज्ञा क्तवतु – ज्ञा तवत् – ज्ञातवत्।

या क्तवतु – या तवत् – यातवत्।

दाधातुः – दाधातोः दथ्-आदेशः भवति क्तवतुप्रत्यये परे।[4]

दा क्तवतु – दा तवत् – दथ् तवत् – थकारस्य चर्त्वम् – दत्तवत्।

डुधाञ्-धातुः – धाधातोः हि-आदेशः भवति।[5]

धा क्तवतु – धा तवत् – हि तवत् – हितवत्।

स्थाधातुः – स्थाधातोः तादौ किति इकारादेशः भवति।[6]

स्था क्तवतु – स्था तवत् – स्थि तवत् – स्थितवत्।

द्रा-धातुः – संयोगादिः धातुः आकारान्तः यण्वान् तस्मात् परस्य निष्ठा तकारस्य नकारः।[7]

द्रा क्तवतु – द्रा तवत् – द्रा नवत् – नकारस्य णत्वं भवति – द्राणवत्।

घ्राधातोः परस्य निष्ठातकारस्य विकल्पेन नकारादेशः भवति।[8]

घ्रा क्तवतु – घ्रा तवत् – घ्रा नवत् – नकारस्य णत्वं भवति – घ्राणवत्, घ्रातवत्।

ग्लै क्तवतु – ऐकारस्य आकारः[9] - ग्ला तवत् – ग्ला नवत् – ग्लानवत्।

ह्वेञ्-धातुः – ह्वेञ्-धातोः किति सम्प्रसारणं भवति।[10] सम्प्रसारणात् अचि पूर्वरूपैकादेशः।[11]

ह्वे क्तवु – ह्वे तवत् – ह्  ए तवत् – हू तवत् – हूतवत्।

क्षैधातुः – क्षैधातोः निष्ठातकारस्य मकारादेशः।[12]

क्षै क्तवतु – क्षा तवत् – क्षा मवत् – क्षामवत्।

इकारान्तधातवः

1.    श्रिधातुः यद्यपि सेट्, तथापि निष्ठायाम् इटः निषेधः भवति।[13]

2.   अन्ये धातवः अनिटः।

3.   प्रत्ययस्य कित्त्वात् गुणस्य निषेधः।

श्रि क्तवतु – श्रि तवत् – श्रितवत्।

स्मि क्तवतु – स्मि तवत् – स्मितवत्।

ईकारान्ताः धातवः

1.    ईकारान्तेषु शीङ् डीङ् इति एतौ सेटौ। अन्ये च अनिटः।

2.   शीङ्-धातोः परस्य सेट्-निष्ठा कित् न भवति।[14] अतः गुणः भवति।

शी क्तवतु – शी तवत् – शी इ तवत् – शे इ तवत् – शय् इ तवत् – शयितवत्।

नी क्तवत् – नी तवत् – नीतवत्

भी क्तवतु – भी तवत् – भीतवत्।

उकारान्ताः धातवः

1.    सर्वेपि उकारान्ताः अनिटः।

2.   प्रत्ययस्य कित्त्वात् गुणस्य निषेधः।

स्तु क्तवतु – स्तु तवत् – स्तुतवत्।

द्रु क्तवतु – द्रु तवत् – द्रुतवत्।

ऊकारान्ताः धातवः

1.    सर्वे ऊकारान्ताः सेटः भवन्ति परन्तु निषेधः उक्तः इडागमस्य।[15]

2.   कित्त्वात् गुणनिषेधः।

भू क्तवतु – भू तवत् – भूतवत्।

सू क्तवतु – सू तवत् – सूतवत्।

पूञ्-धातुः – पूधातोः परस्य निष्ठातकारस्य नकारादेशः भवति विनाशार्थे।[16]

पू क्तवतु – पू तवत् – पूनवत्, पूतवत्।

लूञ्-धातुः – लूधातोः परस्य निष्ठा तकारस्य नकारादेशः भवति।[17]

लू क्तवतु – लू तवत् – लू नवत् – लूनवत्।

ब्रूञ्-धातुः – ब्रूधातोः आर्धधातुके वच्-आदेशः भवति।[18] तस्य च सम्प्रसारणं भवति।[19] सम्प्रसारणे पूर्वरूपैकादेशः भवति। चकारस्य कुत्वम्।

ब्रू क्तवतु – ब्रू तवत् – वच् तवत् – उ अ च् तवत् – उक् तवत् – उक्तवत्।

ऋकारान्ताः धातवतः

1.    किति गुणस्य निषेधः भवति।

स्मृ क्तवतु – स्मृ तवत् – स्मृतवत्।

कृ क्तवतु – कृ तवत् – कृतवत्।

ॠकारान्ताः धातवः –

1.    ॠकारान्ताः सेटः सन्ति, तथापि इटः निषेधः विधीयते।[20]

2.   कित्त्वात् गुणस्य निषेधः।

3.   गुणनिषेधे ॠकारस्य इकारादेशः[21], स च रपरः भवति।

4.   ओष्ठ्यपूर्वस्य ॠकारस्य उकारादेशः,[22] स च रपरः भवति।

5.   हलि परे रेफवान्तयोः उपधायाः इकः दीर्घः भवति।[23]

6.   रेफात् परस्य निष्ठा तस्य नकारादेशः[24]

तॄ क्तवतु – तॄ तवत् – तिर् तवत् – तीर् तवत् – तीर् नवत् – तीर्णवत्।

जॄ क्तवतु – जॄ तवत् – जिर् तवत् – जीर् तवत् – जीर् नवत् – जीर्णवत्

मॄ क्तवतु – मॄ तवत् – मुर् तवत् – मूर् तवत् – मूर् नवत् – मूर्णवत्।



[1] क्त्तवतू निष्ठा

[2] एकाच उपदेशेऽनुदात्तात्

[3] आदेच उपदेशेऽशिति

[4] दो दद्घोः

[5] दधातेर्हिः

[6] द्यतिस्यतिमास्थामित्ति किति

[7] संयोगादेरातो धातोर्यण्वतः

[8] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[9] आदेच उपदेशेऽशिति

[10] वचिस्वपियजादीनां किति

[11] सम्प्रसारणाच्च

[12] क्षायो मः

[13] श्र्युकः किति

[14] निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः

[15] श्र्युकः किति

[16] पूञो विनाश इति वक्तव्यम्

[17] ल्वादिभ्यश्च

[18] ब्रुवो वचिः

[19] वचिस्वपियजादीनां किति

[20] श्र्युकः किति

[21] त इद्धातोः

[22] उदोष्ठ्यपूर्वस्य

[23] हलि च

[24] रदाभ्यां निष्ठातो नः पूर्वस्य च दः

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...