नवमः पाठः – क्तवतुप्रक्रिया
प्रयोजनानि –
1. क्तवतुप्रत्ययस्य परिचयः।
2. आकारान्तानां क्तवतुप्रक्रियां पठामः।
3. इकारान्तधातूनां क्तवतुप्रक्रियां पठामः।
4. ईकारान्तधातूनां क्तवतुप्रक्रियां पठामः।
5. उकारान्तधातूनां क्तवतुप्रक्रियां पठामः।
6. ऋकारान्तधातूनां क्तवतुप्रक्रियां पठामः।
7. ॠकारान्तधातूनां क्तवतुप्रक्रियां पठामः।
क्तवतुप्रत्ययः –
1. क्तवतुप्रत्ययस्य निष्ठा इति संज्ञा।[1]
2. अस्मिन् प्रत्यये ककारस्य उकारस्य इत्संज्ञा।
3. अयञ्च कित्-प्रत्ययः, वलादिः आर्धधातुकञ्च।
4. वलादित्वात् इट्-आगमः कर्तव्यः।
5. कित्वात् गुणस्य निषेधः, केषाञ्चन धातूनां सम्प्रसारणम्, नलोपः।
6. क्तवतुप्रत्ययस्य तकारस्य नकारादयः आदेशाः भवन्ति।
आकारान्ताः धातवः –
1. आकारान्ताः अनिटः धातवः।[2]
2. एजन्तधातूनां आकारादेशः भवति।[3]
अतः तेषामपि प्रक्रिया आकारान्तानामिव ज्ञेया।
ज्ञा क्तवतु – ज्ञा तवत् – ज्ञातवत्।
या क्तवतु – या तवत् – यातवत्।
दाधातुः – दाधातोः दथ्-आदेशः भवति क्तवतुप्रत्यये परे।[4]
दा क्तवतु – दा तवत् – दथ् तवत् – थकारस्य चर्त्वम् – दत्तवत्।
डुधाञ्-धातुः – धाधातोः हि-आदेशः भवति।[5]
धा क्तवतु – धा तवत् – हि तवत् – हितवत्।
स्थाधातुः – स्थाधातोः तादौ किति इकारादेशः भवति।[6]
स्था क्तवतु – स्था तवत् – स्थि तवत् – स्थितवत्।
द्रा-धातुः – संयोगादिः धातुः आकारान्तः यण्वान् तस्मात् परस्य निष्ठा तकारस्य नकारः।[7]
द्रा क्तवतु – द्रा तवत् – द्रा नवत् – नकारस्य णत्वं भवति – द्राणवत्।
घ्राधातोः परस्य निष्ठातकारस्य विकल्पेन नकारादेशः भवति।[8]
घ्रा क्तवतु – घ्रा तवत् – घ्रा नवत् – नकारस्य णत्वं भवति – घ्राणवत्, घ्रातवत्।
ग्लै क्तवतु – ऐकारस्य आकारः[9] - ग्ला तवत् – ग्ला नवत् – ग्लानवत्।
ह्वेञ्-धातुः – ह्वेञ्-धातोः किति सम्प्रसारणं भवति।[10] सम्प्रसारणात् अचि पूर्वरूपैकादेशः।[11]
ह्वे क्तवु – ह्वे तवत् – ह् ए तवत् – हू तवत् – हूतवत्।
क्षैधातुः – क्षैधातोः निष्ठातकारस्य मकारादेशः।[12]
क्षै क्तवतु – क्षा तवत् – क्षा मवत् – क्षामवत्।
इकारान्तधातवः –
1. श्रिधातुः यद्यपि सेट्, तथापि निष्ठायाम् इटः निषेधः भवति।[13]
2. अन्ये धातवः अनिटः।
3. प्रत्ययस्य कित्त्वात् गुणस्य निषेधः।
श्रि क्तवतु – श्रि तवत् – श्रितवत्।
स्मि क्तवतु – स्मि तवत् – स्मितवत्।
ईकारान्ताः धातवः –
1. ईकारान्तेषु शीङ् डीङ् इति एतौ सेटौ। अन्ये च अनिटः।
2. शीङ्-धातोः परस्य सेट्-निष्ठा कित् न भवति।[14] अतः गुणः भवति।
शी क्तवतु – शी तवत् – शी इ तवत् – शे इ तवत् – शय् इ तवत् – शयितवत्।
नी क्तवत् – नी तवत् – नीतवत्
भी क्तवतु – भी तवत् – भीतवत्।
उकारान्ताः धातवः –
1. सर्वेपि उकारान्ताः अनिटः।
2. प्रत्ययस्य कित्त्वात् गुणस्य निषेधः।
स्तु क्तवतु – स्तु तवत् – स्तुतवत्।
द्रु क्तवतु – द्रु तवत् – द्रुतवत्।
ऊकारान्ताः धातवः –
1. सर्वे ऊकारान्ताः सेटः भवन्ति परन्तु निषेधः उक्तः इडागमस्य।[15]
2. कित्त्वात् गुणनिषेधः।
भू क्तवतु – भू तवत् – भूतवत्।
सू क्तवतु – सू तवत् – सूतवत्।
पूञ्-धातुः – पूधातोः परस्य निष्ठातकारस्य नकारादेशः भवति विनाशार्थे।[16]
पू क्तवतु – पू तवत् – पूनवत्, पूतवत्।
लूञ्-धातुः – लूधातोः परस्य निष्ठा तकारस्य नकारादेशः भवति।[17]
लू क्तवतु – लू तवत् – लू नवत् – लूनवत्।
ब्रूञ्-धातुः – ब्रूधातोः आर्धधातुके वच्-आदेशः भवति।[18] तस्य च सम्प्रसारणं भवति।[19] सम्प्रसारणे पूर्वरूपैकादेशः भवति। चकारस्य कुत्वम्।
ब्रू क्तवतु – ब्रू तवत् – वच् तवत् – उ अ च् तवत् – उक् तवत् – उक्तवत्।
ऋकारान्ताः धातवतः
1. किति गुणस्य निषेधः भवति।
स्मृ क्तवतु – स्मृ तवत् – स्मृतवत्।
कृ क्तवतु – कृ तवत् – कृतवत्।
ॠकारान्ताः धातवः –
1. ॠकारान्ताः सेटः सन्ति, तथापि इटः निषेधः विधीयते।[20]
2. कित्त्वात् गुणस्य निषेधः।
3. गुणनिषेधे ॠकारस्य इकारादेशः[21], स च रपरः भवति।
4. ओष्ठ्यपूर्वस्य ॠकारस्य उकारादेशः,[22] स च रपरः भवति।
5. हलि परे रेफवान्तयोः उपधायाः इकः दीर्घः भवति।[23]
6. रेफात् परस्य निष्ठा तस्य नकारादेशः।[24]
तॄ क्तवतु – तॄ तवत् – तिर् तवत् – तीर् तवत् – तीर् नवत् – तीर्णवत्।
जॄ क्तवतु – जॄ तवत् – जिर् तवत् – जीर् तवत् – जीर् नवत् – जीर्णवत्
मॄ क्तवतु – मॄ तवत् – मुर् तवत् – मूर् तवत् – मूर् नवत् – मूर्णवत्।
[1] क्त्तवतू निष्ठा
[2] एकाच उपदेशेऽनुदात्तात्
[3] आदेच उपदेशेऽशिति
[4] दो दद्घोः
[5] दधातेर्हिः
[6] द्यतिस्यतिमास्थामित्ति किति
[7] संयोगादेरातो धातोर्यण्वतः
[8] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्
[9] आदेच उपदेशेऽशिति
[10] वचिस्वपियजादीनां किति
[11] सम्प्रसारणाच्च
[12] क्षायो मः
[13] श्र्युकः किति
[14] निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः
[15] श्र्युकः किति
[16] पूञो विनाश इति वक्तव्यम्
[17] ल्वादिभ्यश्च
[18] ब्रुवो वचिः
[19] वचिस्वपियजादीनां किति
[20] श्र्युकः किति
[21] ॠत इद्धातोः
[22] उदोष्ठ्यपूर्वस्य
[23] हलि च
[24] रदाभ्यां निष्ठातो नः पूर्वस्य च दः
Friday, February 27, 2026
Lesson 9 (क्तवतु)
Subscribe to:
Post Comments (Atom)
Lesson 16 (अनीयर्)
षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1. अनीयर्-प्रत्ययस्य विधानं जानीमः 2. अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3. हलन्तध...
-
प्रथमः पाठः – कृत्परिचयः प्रयोजनानि – अस्मिन् पाठे ... 1. कृत्-संज्ञायाः व्याख्यानं जानीमः। 2. कृतः केभ्यः विहिताः इति जानीमः। ...
-
पञ्चदशः पाठः – तव्यत्-तव्ययोः प्रक्रिया प्रयोजनानि – अस्मिन् पाठे... 1. अस्मिन् पाठे तव्यत्-तव्ययोः प्रक्रियां पठामः। 2. अजन्तधातू...
-
द्वितीयः पाठः – ण्वुल्प्रत्ययः प्रयोजनानि – अस्मिन् पाठे ... 1.अस्मिन् पाठे ण्वुलप्रत्ययस्य प्रक्रियां पठामः। 2. अजन्तधातूनां ण्वुलि ...
No comments:
Post a Comment