Friday, February 27, 2026

Lesson 12 (क्त)

 

द्वादशः पाठः – क्तप्रक्रिया

प्रयोजनानि –

1.    क्तप्रत्ययस्य परिचयः।

2.   आकारान्तानां क्तप्रक्रियां पठामः।

3.   इकारान्तधातूनां क्तप्रक्रियां पठामः।

4.   ईकारान्तधातूनां क्तप्रक्रियां पठामः।

5.   उकारान्तधातूनां क्तप्रक्रियां पठामः।

6.   ऋकारान्तधातूनां क्तप्रक्रियां पठामः।

7.   ॠकारान्तधातूनां क्तप्रक्रियां पठामः।

क्तप्रत्ययः

1.    क्तप्रत्ययस्य निष्ठा इति संज्ञा।[1]

2.   क्तप्रत्ययः सकर्मकेभ्यः कर्मणि अकर्मकेभ्यः भावे च भवति।

3.   अस्मिन् प्रत्यये ककारस्य इत्संज्ञा।[2]

4.   अयञ्च कित्-प्रत्ययः, वलादिः आर्धधातुकञ्च।

5.   वलादित्वात् इट्-आगमः कर्तव्यः।

6.   कित्वात् गुणस्य निषेधः, केषाञ्चन धातूनां सम्प्रसारणम्, नलोपः।

7.   क्तप्रत्ययस्य तकारस्य नकारादयः आदेशाः भवन्ति।

आकारान्ताः धातवः –

1.    आकारान्ताः अनिटः धातवः।[3]

2.   एजन्तधातूनां आकारादेशः भवति।[4]

अतः तेषामपि प्रक्रिया आकारान्तानामिव ज्ञेया।

ज्ञा क्त – ज्ञा त – ज्ञात।

या क्त – या त – यात।

दाधातुः – दाधातोः दथ्-आदेशः भवति क्तवतुप्रत्यये परे।[5]

दा क्त – दा त – दथ् त – थकारस्य चर्त्वम् – दत्त।

डुधाञ्-धातुः – धाधातोः हि-आदेशः भवति।[6]

धा क्त – धा त – हि त – हित।

स्थाधातुः – स्थाधातोः तादौ किति इकारादेशः भवति।[7]

स्था क्त – स्था त – स्थि त – स्थित।

द्रा-धातुः – संयोगादिः धातुः आकारान्तः यण्वान् तस्मात् परस्य निष्ठा तकारस्य नकारः।[8]

द्रा क्त – द्रा त – द्रा न – नकारस्य णत्वं भवति – द्राण।

घ्राधातोः परस्य निष्ठातकारस्य विकल्पेन नकारादेशः भवति।[9]

घ्रा क्त – घ्रा त – घ्रा न – नकारस्य णत्वं भवति – घ्राण, घ्रात।

ग्लै क्त – ऐकारस्य आकारः[10] - ग्ला त – ग्ला न – ग्लान।

ह्वेञ्-धातुः – ह्वेञ्-धातोः किति सम्प्रसारणं भवति।[11] सम्प्रसारणात् अचि पूर्वरूपैकादेशः।[12]

ह्वे क्त – ह्वे त – ह्  ए त – हू त – हूत।

क्षैधातुः – क्षैधातोः निष्ठातकारस्य मकारादेशः।[13]

क्षै क्त – क्षा त – क्षा म – क्षाम।

इकारान्तधातवः

1.    श्रिधातुः यद्यपि सेट्, तथापि निष्ठायाम् इटः निषेधः भवति।[14]

2.   अन्ये धातवः अनिटः।

3.   प्रत्ययस्य कित्त्वात् गुणस्य निषेधः।

श्रि क्त – श्रि त – श्रित।

स्मि क्त – स्मि त – स्मित।

ईकारान्ताः धातवः

1.    ईकारान्तेषु शीङ् डीङ् इति एतौ सेटौ। अन्ये च अनिटः।

2.   शीङ्-धातोः परस्य सेट्-निष्ठा कित् न भवति।[15] अतः गुणः भवति।

शी क्त – शी त – शी इ त – शे इ त – शय् इ त – शयित।

नी क्त – नी त – नीत।

भी क्त – भी त – भीत।

उकारान्ताः धातवः

1.    सर्वेपि उकारान्ताः अनिटः।

2.   प्रत्ययस्य कित्त्वात् गुणस्य निषेधः।

स्तु क्त – स्तु त – स्तुत।

द्रु क्त – द्रु त – द्रुत।

ऊकारान्ताः धातवः

1.    सर्वे ऊकारान्ताः सेटः भवन्ति परन्तु निषेधः उक्तः इडागमस्य।[16]

2.   कित्त्वात् गुणनिषेधः।

भू क्त – भू त – भूत।

सू क्त – सू त – सूत।

पूञ्-धातुः – पूधातोः परस्य निष्ठातकारस्य नकारादेशः भवति विनाशार्थे।[17]

पू क्त – पू त – पून, पूत।

लूञ्-धातुः – लूधातोः परस्य निष्ठा तकारस्य नकारादेशः भवति।[18]

लू क्त – लू त – लू न – लून।

ब्रूञ्-धातुः – ब्रूधातोः आर्धधातुके वच्-आदेशः भवति।[19] तस्य च सम्प्रसारणं भवति।[20] सम्प्रसारणे पूर्वरूपैकादेशः भवति। चकारस्य कुत्वम्।

ब्रू क्त – ब्रू त – वच् त – उ अ च् त – उक् त – उक्त।

ऋकारान्ताः धातवतः

1.    किति गुणस्य निषेधः भवति।

स्मृ क्त – स्मृ त – स्मृत।

कृ क्त – कृ त – कृत।

ॠकारान्ताः धातवः –

1.    ॠकारान्ताः सेटः सन्ति, तथापि इटः निषेधः विधीयते।[21]

2.   कित्त्वात् गुणस्य निषेधः।

3.   गुणनिषेधे ॠकारस्य इकारादेशः[22], स च रपरः भवति।

4.   ओष्ठ्यपूर्वस्य ॠकारस्य उकारादेशः,[23] स च रपरः भवति।

5.   हलि परे रेफवान्तयोः उपधायाः इकः दीर्घः भवति।[24]

6.   रेफात् परस्य निष्ठा तस्य नकारादेशः[25]

तॄ क्त – तॄ त – तिर् त – तीर् त – तीर् न – तीर्ण।

जॄ क्त – जॄ त – जिर् त – जीर् त – जीर् न – जीर्ण।

मॄ क्त – मॄ त – मुर् त – मूर् त – मूर् न – मूर्ण।



[1] क्त्तवतू निष्ठा

[2] लशक्वतद्धिते

[3] एकाच उपदेशेऽनुदात्तात्

[4] आदेच उपदेशेऽशिति

[5] दो दद्घोः

[6] दधातेर्हिः

[7] द्यतिस्यतिमास्थामित्ति किति

[8] संयोगादेरातो धातोर्यण्वतः

[9] नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्

[10] आदेच उपदेशेऽशिति

[11] वचिस्वपियजादीनां किति

[12] सम्प्रसारणाच्च

[13] क्षायो मः

[14] श्र्युकः किति

[15] निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः

[16] श्र्युकः किति

[17] पूञो विनाश इति वक्तव्यम्

[18] ल्वादिभ्यश्च

[19] ब्रुवो वचिः

[20] वचिस्वपियजादीनां किति

[21] श्र्युकः किति

[22] त इद्धातोः

[23] उदोष्ठ्यपूर्वस्य

[24] हलि च

[25] रदाभ्यां निष्ठातो नः पूर्वस्य च दः

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...