Thursday, February 26, 2026

Lesson 5 (शतृ)

 

पञ्चमः पाठः – शतृप्रक्रिया

प्रयोजनानि – अस्मिन् पाठे ...

1.    शतृ कदा भवति कस्य भवति इति जानीमः।

2.   शतृप्रत्यये परे प्रक्रिया कथं भवतीति जानीमः।

 

शतृ-आदेशः

1.    शतृ इति लटः आदेशः।[1]

2.   परस्मैपदिभ्यः धातुभ्यः परस्य लटः शतृ-आदेशः विधीयते।

3.   अयं च शित् वर्तते, अतः सार्वधातुकसंज्ञकः भवति।[2]

4.   ऋकारस्य इत्संज्ञा वर्तते अतः उगित् अपि।

5.   शतृ इत्यादेशे अत् इति अवशिष्टः।

6.   शतृ-आदेशस्य सार्वधातुकत्वात्, धातुभ्यः विकरणप्रत्ययाः भवन्ति।

7.   दशानामपि गणानां लटि प्रक्रिया यथा तथैव भवति।

8.   शिति यानि विशिष्टानि कार्याणि उक्तानि तानि भवन्ति।

9.   सारल्येन अवगमनाय, अन्ति अति अनयोः परयोः या प्रक्रिया दृष्टा सैव शतृ-आदेशे अपि भवति। 

भ्वादिगणः

इगन्ताः -

जि लट् – जि शतृ – जि शप् अत् – जि अ अत् – जे अ अत् – जय् अ अत् – पररूपैकादेशः – जयत्।

भू लट् – भू शतृ – भू शप् अत् – भू अ अत् – भो अ अत् – भव् अ अत् – पररूपैकादेशः – भवत्।

स्मृ लट् – स्मृ शतृ – स्मृ शप् अत् – स्मृ अ अत् – स्मर् अ अत् – पररूपैकादेशः – स्मरत्।

इगुपधाः –

चित् लट् – चित् शतृ – चित् शप् अत् – चित् अ अत् – चेत् अ अत् – पररूपैकादेशः – चेतत्।

रुह् लट् – रुह् शतृ – रुह् शप् अत् – रुह् अ अत् – रोह् अ अत् – पररूपैकादेशः – रोहत्।

कृष् लट् – कृष् शतृ – कृष् शप् अत् – कृष् अ अत् – कर्ष् अ अत् – पररूपैकादेशः – कर्षत्।

गम् लट् – गम् शतृ – गम् शप् अत् – गम् अ अत् – मकारस्य छकारः – गच्छ् अ अत् – गच्छ अत् – पररूपैकादेशः – गच्छत्।

स्था लट् – स्था शतृ – स्था शप् अत् – तिष्ठ अ अत् – पररूपैकादेशः – तिष्ठत्।

दिवादिगणः

नश् लट् – नश् शतृ – नश् श्यन् अत् – नश् य अत् – पररूपैकादेशः – नश्यत्।

सिध् लट् – सिध् शतृ – सिध् श्यन् अत् – सिध् य अत् – पररूपैकादेसः – सिध्यत्।

कुप् लट् – कुप् शतृ – कुप् श्यन् अत् – कुप् य अत् – पररूपैकादेशः – कुप्यत्।

शम् लट् – शम् शतृ – शम् श्यन् अत् – शमामष्टानां दीर्घः – शाम् य अत् – पररूपैकादेशः – शाम्यत्।

दिव् लट् – दिव् शतृ – दिव् श्यन् अत् – इकारस्य दीर्घः – दीव् य अत् – पररूपैकादेशः – दीव्यत्।

तुदादिगणः –

क्षि लट् – क्षि शतृ – क्षि श अत् – क्षि अ अत् – इयङ्[3] – क्षिय् अ अत् – पररूपैकादेशः – क्षियत्।

नु लट् – नु शतृ – नु श अत् – नु अ अत् – उवङ्[4] – नुव् अ अत् – पररूपैकादेशः – नुवत्।

प्रच्छ् लट् – प्रच्छ् शतृ – प्रच्छ् श अत् – प्रच्छ अ अत् – सम्प्रसारणम्[5] – पृच्छ् अ अत् – पररूपैकादेशः – पृच्छत्।

लिप् लट् – लिप् शतृ – लिप् श अत् – नुमागमः[6] – लिम्प् अ अत् – पररूपैकादेशः – लिम्पत्।

मिल् लट् – मिल् शतृ – मिल् श अत् – मिल् अ अत् – पररूपैकादेशः – मिलत्।

नुद् लट् – नुद् शतृ – नुद् श अत् – नुद् अ अत् – पररूपैकादेशः – नुदत्।

सृज् लट् – सृज् शतृ – सृज् श अत् – सृज् अ अत् – पररूपैकादेशः – सृजत्।

स्पृश् लट् – स्पृश् शतृ – स्पृश् श अत् – स्पृश् अ अत् – पररूपैकादेशः – स्पृशत्।

चुरादिगणः

तड् णिच् लट् – तड् णिच् शतृ – ताडि शतृ – ताडि शप् अत् – ताडि अ अत् – ताडे अ अत् – ताडय् अ अत् – ताडयत्।

चुर् णिच् लट् – चोरि शतृ – चोरि शप् अत् – चोरि अ अत् – चोरे अ अत् – चोरय् अ अत् – चोरयत्।

भू णिच् लट् – भावि शतृ – भावि शप् अत् – भावि अ अत् – भावे अ अत् – भावय् अ अत् – भावयत्।

अर्ज् णिच् लट् – अर्जि शतृ – अर्जि शप् अत् – अर्जि अ अत् – अर्जे अ अत् – अर्जय् अ अत् – अर्जयत्।

 



[1] लटः शतृशानचावप्रथमा समानाधिकरणे

[2] तिङ्शित् सार्वधातुकम्

[3] अचि श्नुधातुभ्रुवां य्वोरियङिवङौ

[4] अचि श्नुधातुभ्रुवां य्वोरियङिवङौ

[5] ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च

[6] शे मुचादीनाम्

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...