Friday, February 27, 2026

Lesson 6 (शतृ)

 

षष्ठः पाठः – शतृप्रक्रिया (2)

प्रयोजनानि –

1.    स्वादिगणधातूनां शतृप्रक्रियां पठामः।

2.   तनादिगणधातूनां शतृप्रक्रियां पठामः।

3.   क्र्यादिगणधातूनां शतृप्रक्रियां पठामः।

4.   अदादिगणधातूनां शतृप्रक्रियां पठामः।

5.   जुहोत्यादिगणधातूनां शतृप्रक्रियां पठामः।

6.   रुधादिगणधातूनां शतृप्रक्रियां पठामः।

स्वादिगणः –

1.    श्नुप्रत्ययान्तस्य अनेकाचः अङ्गस्य असंयोगपूर्व-उवर्णस्य यण्-आदेशः भवति अजादौ सार्वधातुके परे।[1]

2.   श्नुप्रत्ययान्तस्य अङ्गस्य अजादौ प्रत्यये परतः उवङ्-आदेशः भवति।[2]

चि लट् – चि शतृ – चि श्नु शतृ – चि नु अत् – चि नु अत् – चिन्वत्।

वृ लट् – वृ शतृ – वृ श्नु शतृ – वृ नु अत् – वृण्वत्।

शक् लट् – शक् शतृ – शक् श्नु शतृ – शक् नु अत् – शक्नुवत्।

आप् लट् – आप् शतृ – आप् श्नु शतृ – आप् नु अत् – आप्नुवत्।

तनादिगणः –

1.    उप्रत्ययान्तस्य करोतेः अकारस्य उकारादेशः भवति सार्वधातुके परे।[3]

कृ लट् – कृ शतृ – कृ उ शतृ – कृ उ अत् – कर् उ अत् – कुर् उ अत् – कुर्वत्।

तन् लट् – तन् शतृ – तन् उ शतृ – तन् उ अत् – तन्वत्।

क्र्यादिगणः –

1.    श्नाप्रत्ययस्य आकारस्य लोपः भवति।[4]

क्री लट् – क्री शतृ – क्री श्ना शतृ – क्री ना अत् – क्री न् अत् – क्रीणत्।

प्री लट् – प्री शतृ- प्री श्ना शतृ – प्री ना अत् – प्री न् अत् – प्रीणत्।

क्लिश् लट् – क्लिश् शतृ – क्लिश् श्ना शतृ – क्लिश् ना अत् – क्लिश् न् अत् – क्लिश्नत्।

ग्रह् लट् – ग्रह् शतृ – ग्रह् श्ना शतृ – ग्रह् ना अत् – सम्प्रसारणम् – गृह् ना अत् – गृह् न् अत् – गृह्णत्।

अदादिः –

1.    इण्-धातोः अचि यणादेशः।[5]

2.   मृज्-धातोः किति ङिति अजादौ विकल्पेन वृद्धिः।[6]

3.   अस्-धातोः अकारस्य लोपः सार्वधातुके क्ङिति।[7]

ख्या लट् – ख्या शतृ – ख्या शप् शतृ – ख्या अत् – ख्यात्

इ लट् – इ शतृ – इ शप् शतृ – इ अत् – यत्

स्तु लट् – स्तु शतृ – स्तु शप् शतृ – स्तु अत् – स्तुवत्।

अद् लट् – अद् शतृ – अद् शप् शतृ – अद् अत् – अदत्।

मृज् लट् – मृज् शतृ – मृज् शप् शतृ – मृज् अत् – मार्ज् अत्/मृज् अत् – मार्जत्/मृजत्

विद् लट् – विद् शतृ – विद् शप् शतृ – विद् अत् – विदत्।

अस् लट् – अस् शतृ – अस् शप् शतृ – अस् अत् – अकारस्य लोपः, सत्।

स्वप् लट् – स्वप् शतृ – स्वप् शप् शतृ – स्वप् अत् – स्वपत्।

जुहोत्यादिः –

1.    अभ्यस्तस्य आकारस्य लोपः भवति।[8]

दा लट् – दा शतृ – दा शप् शतृ – दा अत् – दादा अत् – द दा अत् – दद् अत् – ददत्

भी लट् – भी शतृ – भी शप् शतृ – भी अत् – भी भी अत् – बिभी अत् – बिभ्यत्।

हु लट् – हु शतृ – हु शप् शतृ – हु अत् – हु हु अत् – जुहु अत् – जुह्वत्।

रुधादिगणः –

1.    श्नम्-प्रत्ययस्य अकारस्य लोपः भवति।[9]

रुध् लट् – रुध् शतृ – रु श्नम् ध् शतृ – रुनध् अत् – रन्ध् अत् – रुन्धत्।

छिद् लट् – छिद् शतृ – छि श्नम् द् शतृ – छिनद् अत् – छिन्द् अत् – छिन्दत्।

 

 

 

 



[1] हुश्नुवोः सार्वधातुके

[2] अचि श्नुधातुभ्रुवां य्वोरियङुवङौ

[3] अत उत्सार्वधातुके

[4] श्नाभ्यस्तयोरातः

[5] इणो यण्

[6] क्ङित्यजादौ वेष्यते

[7] श्नसोरल्लोपः

[8] श्नाभ्यस्तयोरातः

[9] श्नसोरल्लोपः

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...