Friday, February 27, 2026

Lesson 7 (शानच्)

 

सप्तमः पाठः – शानचः प्रक्रिया

प्रोजनानि –

1.    अस्मिन् पाठे भ्वादिगणधातूनां शानच्प्रक्रियां पठामः।

2.   दिवादिगणधातूनां शानच्प्रक्रियां पठामः।

3.   तुदादिगणधातूनां शानच्प्रक्रियां पठामः।

4.   चुरादिगणधातूनां शानच्प्रक्रियां पठामः।

शानच्

1.    शनच् इति लटः आदेशः।[1]

2.   आत्मनेपदिभ्यः धातुभ्यः परस्य लटः शतृ-आदेशः विधीयते।

3.   अयं च शित् वर्तते, अतः सार्वधातुकसंज्ञकः भवति।[2]

4.   चकारस्य इत्संज्ञा वर्तते।

5.   शानच् इत्यादेशे आन इति अवशिष्टः।

6.   शानच्-आदेशस्य सार्वधातुकत्वात्, धातुभ्यः विकरणप्रत्ययाः भवन्ति।

7.   दशानामपि गणानां लटि प्रक्रिया यथा तथैव भवति।

8.   शिति यानि विशिष्टानि कार्याणि उक्तानि तानि भवन्ति।

9.   शानच्प्रक्रियायां विकरणप्रत्ययान्तस्य अङ्गस्य द्विधा विभागः क्रियते अदन्तम्, अनदन्तम् इति।

10. अदन्तस्याङ्गस्य शानचि मुक्-आगमः भवति।[3]

भ्वादिगणधातवः –

स्मि लट् – स्मि शानच् – स्मि शप् शानच् – स्मि अ आन – स्मे अ आन – स्मय आन – स्मयमान।

डी लट् – डी शानच् – डी शप् शानच् – डी अ आन – डे अ आन – डय आन – डयमान।

पू लट् – पू शानच् – पू शप् शानच् – पू अ आन – पो अ आन – पव आन – पवमान।

धृ लट् – धृ शानच् – धृ शप् शानच् – धृ अ आन – धर् अ आन – धर आन – धरमाण।

दे लट् – दे शानच् – दे शप् शानच् – दे अ आन – दय् अ आन – दय आन – दयमान।

रुच् लट् – रुच् शानच् – रुच् शप् शानच् – रुच् अ आन – रोच् अ आन – रोच आन – रोचमान।

भृज् लट् – भृज् शानच् – भृज् शप् शानच् – भृज् अ आन – भर्ज् अ आन – भर्ज आन – भर्जमान।

वृत् लट् – वृत् शानच् – वृत् शप् शानच् – वृत् अ आन – वर्त् अ आन – वर्त आन – वर्तमान।

दिवादिगणधातवः –

1.    जन्-धातोः शिति जादेशः।[4]

डी लट् – डी शानच् – डी श्यन् शानच् – डी य आन – डीयमान।

सू लट् – सू शानच् – सू श्यन् शानच् – सू य आन – सूयमान।

पद् लट् – पद् शानच् – पद् श्यन् शानच् – पद्य आन – पद्यमान।

विद् लट् – विद् शानच् – विद् श्यन् शानच् – विद्य आन – विद्यमान।

युज् लट् – युज् शानच् – युज् श्यन् शानच् – युज्य आन – युज्यमान।

सृज् लट् – सृज् शानच् – सृज् श्यन् शानच् – सृज्य आन – सृज्यमान।

जन् लट् – जन् शानच् – जन् श्यन् शानच् – जा य आन – जायमान।

तुदादिगणधातवः –

1.    ऋकारस्य शप्रे रिङ्-आदेशः[5]

धृ लट् – धृ शानच् – धृ श शानच् – धृ अ आन – ध्रि अ आन – ध्रिय् अ आन – ध्रिय आन – ध्रियमाण।

लस्ज् लट् – लज्ज् शानच् – लज्ज् श शानच् – लज्ज आन – लज्जमान।

मुच् लट् – मुच् शानच् – मुच् श शानच् – मुञ्च् अ आन – मुञ्चमान।

विद् लट् – विद् शानच् – विद् श शानच् – विन्द् अ आन – विन्दमान।

चुरादिगणधातवः –

1.    चुरादयः स्वार्थे एव णिचं प्राप्नुवन्ति। अतः णिजन्ताः सम्पन्नाः। तस्मात् परस्मैपदसंज्ञाकाः आत्मनेपदसंज्ञकाश्च प्रत्ययाः तत्र भवन्ति।[6]

2.   चुरादिषु केचन धातवः आत्मनेपदिनः एव सन्ति।

भू णिच् – भावि – भावि लट् – भावि शानच् – भावि शप् शानच् – भावि अ आन – भावे अ आन – भावय् अ आन – भावयमान।

ताड् णिच् – ताडि – ताडि लट् – ताडि शानच् – ताडि शप् शानच् – ताडि अ आन – ताडे अ आन – ताडय् अ आन – ताडयमान।

मुच् णिच् – मोचि – मोचि लट् – मोचि शानच् – मोचि शप् शानच् – मोचि अ आन – मोचे अ आन – मोचय् अ आन – मोचयमान।

 

 

 



[1] लटः शतृशानचावप्रथमा समानाधिकरणे

[2] तिङ्शित् सार्वधातुकम्

[3] आने मुक्

[4] ज्ञाजनोर्जा

[5] रिङ् शयग्लिङ्क्षु

[6] णिचश्च

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...