Friday, February 27, 2026

Lesson 8 (शानच्)

 

अष्टमः पाठः – शानचः प्रक्रिया

प्रोजनानि –

1.    स्वादिगणधातूनां शानच्प्रक्रियां पठामः।

2.   तनादिगणधातूनां शानच्प्रक्रियां पठामः।

3.   क्र्यादिगणधातूनां शानच्प्रक्रियां पठामः।

4.   अदादिगणधातूनां शानच्प्रक्रियां पठामः।

5.   जुहोत्यादिगणधातूनां शानच्प्रक्रियां पठामः।

6.   रुधादिगणधातूनां शानच्प्रक्रियां पठामः।

स्वादिगणः -

1.    श्नुप्रत्ययान्तस्य अनेकाचः अङ्गस्य असंयोगपूर्व-उवर्णस्य यण्-आदेशः भवति अजादौ सार्वधातुके परे।[1]

2.   श्नुप्रत्ययान्तस्य अङ्गस्य अजादौ प्रत्यये परतः उवङ्-आदेशः भवति।[2]

चि लट् – चि शानच् – चि श्नु शानच् – चि नु आन – चि नु आन – चिन्वान।

वृ लट् – वृ शानच् – वृ श्नु शानच् – वृ नु आन – वृण्वान।

अश् लट् – अश् शानच् – अश् श्नु शानच् – अश् नु आन – अश्नुवान।

तनादिगणः

1.    उप्रत्ययान्तस्य करोतेः अकारस्य उकारादेशः भवति सार्वधातुके परे।[3]

कृ लट् – कृ शानच् – कृ उ शानच् – कृ उ आन – कर् उ आन – कुर् उ आन – कुर्वाण।

तन् लट् – तन् शानच् – तन् उ शानच् – तन् उ आन – तन्वान।

क्र्यादिगणः

1.    श्नाप्रत्ययस्य आकारस्य लोपः भवति।[4]

क्री लट् – क्री शानच् – क्री श्ना शानच् – क्री ना आन – क्री न् आन् – क्रीणान।

प्री लट् – प्री शानच् – प्री श्ना शानच् – प्री ना आन – प्री न् आन् – प्रीणान।

अदादिः

1.    शीधातोः गुणः भवति सार्वधातुके।[5]

2.   उकारस्य अचि उवङ्-आदेशः भवति।[6]

शी लट् – शी शानच् – शी शप् शानच् – शी आन – शे आन – शयान।

ह्नु लट् – ह्नु शानच् – ह्नु शप् शानच् – ह्नु आन- ह्नुव् आन – ह्नुवान।

जुहोत्यादिः

1.    अभ्यस्तस्य आकारस्य लोपः भवति।[7]

2.   भृधातोः अभ्यासस्य इकारादेशः भवति।[8]

दा लट् – दा शानच् – दा शप् शानच् – दा आन – दादा आन – द दा आन – दद् आन – ददान।

भृ लट् – भृ शानच् – भृ शप् शानच् – भृ आन – भृ भृ आन – भर् भृ आन – ब भृ आन – बिभृ आन – बिभ्राण।

रुधादिगणः

1.    श्नम्-प्रत्ययस्य अकारस्य लोपः भवति।[9]

रुध् लट् – रुध् शानच् – रु श्नम् ध् शानच् – रुनध् आन – रन्ध् आन – रुन्धान।

भुज् लट् – भुज् शानच् – भु श्नम् ध् शानच् – भुनज् आन – भुन् ज् आन – भुञ्जान

 

 

 

 

 



[1] हुश्नुवोः सार्वधातुके

[2] अचि श्नुधातुभ्रुवां य्वोरियङुवङौ

[3] अत उत्सार्वधातुके

[4] श्नाभ्यस्तयोरातः

[5] शीङः सार्वधातुके गुणः

[6] अचि श्नुधातुभ्रुवां य्वोरियङुवङौ

[7] श्नाभ्यस्तयोरातः

[8] भृञामित्

[9] श्नसोरल्लोपः

No comments:

Post a Comment

Lesson 16 (अनीयर्)

  षोडशः पाठः – अनीयर्-प्रत्ययः प्रयोजनानि – 1.     अनीयर्-प्रत्ययस्य विधानं जानीमः 2.    अजन्तधातूनाम् अनीयर्-प्रक्रियां पठामः। 3.    हलन्तध...